________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१७०
घरक-संहिता। [विषचिकित्सितम मुस्तकं पुष्पक क्रौञ्चवत्सनाभं बलाहकम् । कर्कट कालकूटश्च करवीरकसंज्ञकम् ॥ पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम् । रोहिषं पुण्डरीकञ्च लागलकाञ्जनाभकम् ॥ सङ्कोचं मर्कटं शृङ्गोविषं हालाहलं तथा।
एवमादोनि चान्यानि मूलजानि स्थिराणि च ॥६॥ दंष्ट्रोत्थमेव विषं जङ्गमं मतमित्यवधारणं नोक्तं प्राधान्यादंष्ट्रोत्थं विषं जङ्गममुक्तम्। अन्यच्च जङ्गमसम्भवखाजङ्गममेव विषमिति शापनार्थ लूतादीनां सविषत्वेनोक्तिः कृता ॥५॥
गङ्गाधरः-स्थावरयोनिविषमाह-मुस्तकमित्यादि। मुस्तकादिसंशकानि मूलानि स्थिराणि विषाणि। यद्यपि सुश्रते चोक्तं-'स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते। दशाधिष्ठानमाद्यन्तु द्वितीयं षोड़शाश्रयम्। मूलं पत्रं फलं पुष्पं खक क्षीरं सार एव च। निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ तत्र क्लीतकाश्वमारगुञ्जा-सुगन्धगर्गरककरघाटविच्छि खाविजयानि इत्यष्टौ मूल विषाणि। विषपत्रिकालम्बावरदारुककरम्भमहाकरम्भाणि पश्च पत्रविषाणि। कुमुद्रतीरेणुकाकरम्भमहाकरम्भककोटकरेणुकखद्योतकचम्मैरीभगन्धासर्पघातिनन्दनसारपाका ति द्वादश फलविषाणि। वेत्रकादम्बवल्विजकरम्भमहाकरम्भाणि पश्च पुष्पविषाणि। अत्राचककर्तरीयसौरीयककरघाटकरम्भनन्दनवराटकानि सप्त लदसारनिर्यासविषाणि। कुमुदन्नीरनुहीजालक्षीयाण त्रीणि क्षीरविषाणि। फेनाश्मभष्म हरितालश्च द्वे धातुविषे । कालवू टस्तसनाभस पंपकपालककई मकवैराटक मुस्तव. शीविष. प्रपौण्डरीकमूलकहालाहलमहाविपककटकानीति त्रयोदश कन्दविषाणि। इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति। चखारि क्त्सनाभानि मुस्तके द्वे न्यधिष्ठानानि षोडश दृष्टिनिःश्वासदंष्ट्रानखमत्रपुरीपशुकलालाम्पर्शमुख-दंशविशतिगुदास्थिपित्तशूकशवानि देहे पतितानि इत्याहुः ॥ ५ ॥
चक्रपाणिः- स्थावरजे वि मूलजानीति पदं मूलजस्य बहुत्वात् प्राधान्याच। तेन पत्रपुष्पादिजानामपि विषाणां ग्रहणम् । यदुक्तं सुश्रुते-'मूलं पत्रं फलं पुष्पं स्वक्षीरं सार एव तु । निर्यासो धातवश्चैव कन्दश्च दशमः स्मृत इति । मन्दस्त्विह मूल शब्देनैव गृहीतः। एतेषाश संज्ञासम्बन्धे शबरकिरातादय एव विद्या प्रमा, ते हि गुरुपरम्परया व्याख्यानयन्ति ॥६॥
For Private and Personal Use Only