________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्याय:]
चिकित्सितस्थानम् ।
३१६६ सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः । जलौका मत्स्यमण्डकाः शलभाः सर्पकण्टकाः॥ श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः।
दंष्ट्रिणो ये विषं तेषां दंष्टोत्थं जङ्गमं मतम् ॥ ५॥ अम्बुधरापाये शरदि अगस्त्यो महर्षिः स्वभावशक्त्या निहन्ति। तस्माद घनात्यये शरदि विषं मन्दवीर्यत्वं प्रयाति ॥४॥
गङ्गाधरः-केषु जङ्गमेषु केषु च स्थावरेषु तद्विषं न्यस्तमित्यत आहसा इत्यादि। सर्पादयो यावन्तः प्राणिनस्तेषां ये दंष्टिणस्तेषां दंष्टोत्थं विषं जाङ्गमं विषं मतम् । यद्यपि सुश्रुतेनोक्तम्- “जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोड़श। समासेन मया यानि विस्तरस्तेषु वक्ष्यते॥ तत्र दृष्टिनिश्वासदंष्ट्रानखमूत्रपुरोषशुक्रलालार्तवमुखसन्दंशविशद्धितगुदास्थिपित्तशुकशवानीति। तत्र दृष्टिनिश्वासविषास्तु दिव्याः सर्पाः। भौमास्तु दंष्ट्राविषाः। मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकमचलाकगृहगोधिका चतुष्पादकीटास्तथान्ये दंष्ट्रानखविषाः। चिपिटपिच्चटककषायवासिकसर्षपवासिक-तोठकवर्च कीटकौण्डिल्यकाः शकुन्मूत्रविषाः। मूषिकाः शुक्रविषाः । लूताश्च लालमूत्रपुरीषमुखसन्दंशनखशुक्रा-वविषाः। वृश्चिकविश्वम्भरराजीवमत्स्योच्चडिङ्गाः समुद्रदृश्चिकाच लालाविषाः। चित्रशिरःसरावकुर्दिशतदारुकारिमेदकशारिकामुखा मुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः। मक्षिकाकणभजलायुका मुखसन्दंशविषाः। विषहतास्थिसर्पकण्टकवरटीमत्स्यास्थिचेत्यस्थिविषाणि। शकुलीमत्स्यरक्तराजीचरकीमत्स्याश्च पित्तविषाः। सूक्ष्मतुण्डोच्चडिङ्गवरटीशतपदी शुकवलभिका-शृङ्गीभ्रमराः शूकतुण्डविषाः। कोटसपेदेहा गतासवः शवविषाः। शेषास्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः”। इति तेषां क्लिन्नञ्च विसर्पति उक्लिष्टशक्तिकं भवति । अतएवाशोविषार्ताः अतिपीड़िता भवन्ति । अम्बुधराणां वृद्धिकारणं वर्षागमः। अगस्त्यप्रभावाञ्च न हिनस्ति पराधिकारित्वाद्विषस्य ॥४॥
चक्रपाणिः-सा इत्यादिना जङ्गमस्थावरयोनिद्वयं विषस्य सङ्ख पादेवाह । यद्यपि विषगुणा अन उद्दिष्टास्तथापि गुणानां गुण्यपेक्षत्वात् अग्रे विषस्य गुणिनः स्थावरजङ्गमभेदभिन्नस्याभिधानं विषस्य कार्यकारणगुणप्राधान्यख्यापनार्थम् । सर्पोदीनां भेदा अग्रत एव वक्तव्याः। आदिग्रहणात् तन्तान्तरोक्तानां ग्रहणम्। अत दंष्टिसर्प-प्राधान्याद दंष्ट्रिण इत्युक्तम् । तथा दंष्ठोत्यस्य सर्वविषप्राधान्यात्। अदंष्ठोत्थानामपि उन्दुरुविषादीनां ग्रहणम्। जङ्गमस्य विषस्य उक्का
For Private and Personal Use Only