________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१६८
चरक-संहिता। (विधिकित्सितम् तदम्बुसम्भवं तस्माद द्विविधं पावकोपमम् । अष्टवेगं दशगुणं चतुर्विशत्युपक्रमम् । तद्वर्षास्खम्बुयोनित्वात् संक्लेदं गुड़वद गतम् ॥ सर्पत्यम्बुधरापाये तदगस्त्यो निहन्ति च। प्रयाति मन्दवीर्य्यत्वं विषं तस्माद घनात्यये ॥४॥ गङ्गाधरः इति प्रागुत्पत्तियोनिवचनमुक्खा भेदमाह तदम्बु इत्यादि। यस्मात्तत् क्षीरोदाम्बुसम्भवं तस्माद्विविधमेव स्थावरजङ्गमयोनिकं पावकोपर्म भवति। प्रागुत्पत्तावग्निर्जलं सृज्यमानमनुप्राविशदिति तस्माज्जलादिदं जातमग्निवदभिव्यक्तमिति पावकीपमम् । अष्टेत्यादि । तदष्टवेगं दशगुणं चतविंशत्युपक्रमं भवति। सुश्रतेऽपि प्रागुत्पत्तिरुक्ता। तद्यथा। “प्रजामिमामात्मयोने ब्रह्मणः सृजतः किल । अकरोदसुरोविघ्नं कैटभो नाम दपितः। ततः क्रद्धस्य वै वक्ताद ब्रह्मणस्तेजसोनिधेः। क्रोधो विग्रहवान् भूखा निष्पपाताथ दारुणः। स तं ददाह गर्जन्तमन्तकामं महाबलम् । ततोऽसुरं घातयिखा तत् तेजोऽवर्द्धतादभुतम्। ततो विषादो देवानामभवत् तं निरीक्ष्य वै । विषादजननात् तच्च विषमित्यभिधीयते। ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः । विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च”। इति । इत्येवं सुश्रुतोक्तविषप्रागुत्पत्तिविरोधः परिहार्य एवं विद्वद्भिः। य एष ब्रह्मणः कोपपुरुषो विषाख्यः सर्गकाले जातो ब्रह्मणैव स्थावरजङ्गमेषु भूतेषु विन्यस्तः स एव पुनः कृतयुगे देवासुरैः क्षीरोदे मथ्यमाने मन्थनदण्डीभूतमन्दरपर्वतस्य नानौषधिवृक्षमाणिजुष्टस्य मन्थनरज्जूभूतस्य वासुकर्मन्थनवेगाकर्षणलान्तस्य मुखात् निःसृतं विषं नानौषधिप्राणिस्थविषञ्चैकीभूतं पुनयों विषाख्यः पुरुषो जातः स उक्त इह तन्त्रे वाचायेणेति न विरोधः । तदित्यादि । तद्विषमम्बुयोनिखात् खभावेण वर्षासु प्रादृषि ऋतौ गुड़वत संक्लेदं गतं सपति चलति । । चक्रपाणिः-तदम्बुसम्भव तस्मात् द्विविधमिति-तस्मात् सम्बन्धतः उत्पन्नत्वादग्बुसम्भव तथा तस्माद् ब्रह्मणो योनिद्वयनियुक्तत्वात् द्विविधमित्यर्थः। अग्बुसम्भवत्वेन चास्य वर्षप्रकोपित्वं वक्ष्यमाणं युक्तं योनिभूतेन अस्य प्रभावप्रशमने क्रियेत इति ज्ञेयम। उक्तं हि भगवता व्यासेन 'अयोग्नेरूक्षतोत्पत्तिरश्मनो लोहमुस्थितम् । तस्मात् सवगं तेज' इति । अष्टवेगमिति मनुष्यापेक्षयाष्टवेगम। दशगुणा इत्यने वक्ष्यमाणाः। उपक्रमं चिकितसानुष्ठानभेदः । सर्वविविशेषप्रकोपे हेतुमाह-तद्वर्षाविति। गुड़ो यथा अम्बुयोनित्वात् वर्षासूपक्लिन्नो भवति तथा विषमपि
For Private and Personal Use Only