________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोविंशोऽध्यायः। अथातो विषचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ प्रागुत्पत्तिं गुणान् योनिं वेगान् सिद्धानुपक्रमान् । विषस्य बुवतः सम्यगग्निवेश निबोध मे ॥ २ ॥ मथ्यमाने जलनिधावमृतार्थ सुरासुरैः।। जज्ञ प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ॥ दोप्ततेजाश्चतुदंष्ट्रो हरिकेशों-छ-ऽनलेक्षणः। जगद्विषण्णं तद् दृष्टा विषं तत्तु विषादनात् ॥
जङ्गमस्थावरायान्तु योनौ ब्रह्मा न्ययोजयत् ॥३॥ गङ्गाधरः-उद्दिष्टक्रमाद विपचिकित्सितमाह-अथे यादि। सर्व पूर्व वग्राख्येयम् ॥१॥
गङ्गाधरः--प्रागुत्पत्तिमित्यादि । उपक्रमानित्यस्य विशेषणं सिद्वानिति ॥२
गङ्गाधरः-मथ्यमान इत्यादि। अमृतोत्पत्तेः पूर्व घोरदर्शनादिरूपः पुरुषो नदादिवद द्रवविशेषनिस्राविशरीरो जशे। तस्य शरीरात् नु तं द्रवं विषं शम्भुः पौ। शेष किश्चित् द्रवस्राविशरीरं तं विषपुरुषं ब्रह्मा स्थावरयोनो जङ्गमयोनौ न्ययोजयत् नियुक्तमकरोत् । विषादनादिति विषादकारणम् । द्वे योनी ॥३॥
चक्रपाणि:- शीतापशमप्राधान्यसामान्यात् तृष्णाचिकितिसितमनु विषचिकितसितमुच्यते ॥१॥ चक्रमणिः-प्रागिति । प्रागुतपत्तिः आद्योत्पत्तिः। योनिरित्यधिष्टानम्। लिङ्गानीति देहसम्बन्धविषस्य लिङ्गान। अब नापृष्टा गुरवो वदन्तीति न्यायात् शिष्यप्रश्नो ज्ञातव्यः । विषञ्च यद्यपि रोगाधिकारे न सूचितं सामान तथापि विषगराभिधानात् तत्तत्कारणतया सूनितमेव रोगाधिकारे ज्ञेयम् । तेन नोत्सूलितमिह विषाभिधानमिति ॥ २॥
चक्रपाणि:-मध्यमाने इत्यादिना प्रागुत्पत्त्यभिधानं विषस्य महाप्रभावदर्शनार्थम् । हरित्केश इति काल केशः। स पुरुषः विषमुच्यते विषादनादतोः। एवञ्च विषशब्दनिक्तिर्भवति ॥३॥
• हरितकेश इति पाठान्तरम् ।
For Private and Personal Use Only