________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२३श अध्यायः
चिकित्सितस्थानम् । गरं संयोगजश्चान्यत् गरसंज्ञगदप्रदम् । कालान्तरवि कित्वान्न तदाशु हरेदसून् ॥७॥ निद्रां तन्द्रां क्लमं दाहमपाकं लोमहर्षणम् । शोथञ्चैवातिसारञ्च कुरुते जङ्गमं विषम् ॥ स्थावरन्तु ज्वरं हिक्वां दन्तहर्ष गलग्रहम् ।
फेणछईप्ररुचिश्वासान् मूर्छाञ्च जनयेभृशम् ॥८॥ प्रकीर्तिते। षट् चैव सर्षपान्याहुः शेषाप्येकैकमेव च” इति तथापि मुस्तकादि कन्दविषाणि, तथैवयादीनि चान्यानि मूलजानि स्थिराणि चेत्युक्त्या पत्र पुष्पादीनि संगृही..नीह चान्यानीति पदेन ततो न विरोधः॥६॥
गङ्गाधरः-गरमित्यादि। आभ्यामन्यद्विषं गरं तत् तु संयोगजं गरसंज्ञ गदप्रदं भवेत्। गदप्रदखाद्विषं कालान्तरे विपाकिखात् तद् गरमाशु नामुन् हरेत् ॥७॥
गङ्गाधरः-निद्रामित्यादि। जङ्गमविषस्य निद्रादिकं सामान्यलिङ्गम् । स्थावरन्वित्यादि। स्थावरविषस्य ज्वरादिजननं सामान्यं कर्म ॥८॥
चक्रपाणिः-स्थावरजङ्गमसम्भवमेव तृतीयं विषमाह-गरसंयोगजमित्यादि। गरार्थः संयोग एषां ते गरसंयोगाः द्रव्यभेदास्तेभ्यो जातं गरसंयोगजम्। गरं तन्त्र संज्ञा यस्य तत् गरसंज्ञं चिरकारित्वाद्रोगजनकं न आशुप्राणहरम् । एतदेवाह-कालान्तरेत्यादि। सुश्रुतेऽपि विविधमेव विषमुक्तम् 'स्थावरं जङ्गमं चैव कृतिमं विषमित्यनेन। यत् तु दूषीविषम वक्ष्यति तत् सिविधान्तर्गतं दर्शयिष्यामः। गरन्तु द्विविधं निर्विषद्रव्यर योगकृतं तथा सविषद्रव्यसंयोगकृतम्। तलाय गरसंज्ञं उत्तरं तु कृतिममिति व्यवस्था। इमां व्यवस्था गृहीत्वैवमुक्त रसायनीये। 'दंष्ट्राविषे मूलविष सगरे कृत्रिमे विषे' इति । तथा वृद्धाश्यपेऽप्युक्तं'संयोगजञ्च द्विविधं तृतीयं विषमुच्यते। गरं स्यादविषं तत्र सविषं कृत्रिम मत'मिति ॥७॥
चक्रपाणिः-निद्रामित्यादिना तथा ज्वरमित्यादिना जङ्गमस्थावरविषस्य लिङ्गानि, जङ्गम. स्थावरयोः परस्परोपरोधात् ॥८॥
For Private and Personal Use Only