________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श भध्यायः] चिकित्सितस्थानम् ।
हिकाश्वासनवज्वरपोनसघृतपोतपार्श्वगलरोगे। कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम् ॥ पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु। प्रीहि च तोयं न हितं काममशक्ये पिबेदल्पम् ॥ २४॥ पूर्वामयातुरः सन् दोनस्तृष्णादितो जलं काङक्षन् । न लभेत चेन्मरणमाश्वेव चाप्नुयादीर्घरोगं वा॥ तस्माद्धान्याम्बु पिबेत्तृषान् रोगी सशर्कराक्षौद्रम् । यद्वा तस्यान्यत् स्यात् सात्म्यं रोगस्य तच्चेष्टम् ॥ तस्यां विनिवृत्तायां तजोऽन्य उपद्रवः सुखं जेतुम् ।
तस्मात् पूर्व तृष्णां जयेद् बहुभ्योऽपि रोगेभ्यः ॥ २५ ॥ शस्तमिति। हिक्क त्यादि। हिक्कादिरोगे उपसर्गरूपा या तृष्णा कफवातकृते स्त्याने कफे शुद्धे च वमनविरेचनाभ्यां सद्यस्तर्षे उष्णमम्भो हितमिति । पाण्डूदरेत्यादि। पाण्डादिषु या तृष्णा प्लीनि च या तृष्णा तत्र तोयं न हितम् । अशक्ये तृष्णासहने काममिष्टतस्वल्पं तोयं पिबेत् ॥२४॥
गङ्गाधरः-पूर्वोत्यादि। पूर्वोत्पन्नामयेनातुरः सन् दीनादिर्जलं कासन् चेन लभेत, तदा शीघ्रमेव मरणं प्राप्नुयादथवा दीर्घरोगं प्राप्नुयात् । तस्मादित्यादि। तस्मान्मरणदीर्घरोगान्यतरप्राप्तेहेतोस्तृष्यन् रोगी धान्याम्बु धन्याकजलं शर्कराक्षौद्रयुक्तं पिबेत् । तस्य रोगस्य यद्वान्यवद्रव्यं पाने सात्म्यं रोगिणः स्यात्तच्च पातुमिष्टं विद्यात्। तस्यामित्यादि। यस्माद् यस्य रोगस्योपद्रवस्तृष्णा तस्यामुपद्रवात्मिकायां तृष्णायां विनिवृत्तायां तद्रोगजोऽन्य उपद्रवो जेलं सुरवं यथा स्यात्तथा स्यात् । तस्मादन्योपद्रवस्य मुखजेयवादहुभ्योऽन्येभ्योऽपि रोगेभ्यः पूर्व तृष्णां जयेदिति ॥२५॥ ज्वरे रोगे च। उदमूततृष्णायां हितमिति पाण्डादिरोगे तृष्णायामपि तोयं न हितम् । असो तर्ष इति शेषः ॥ २३ ॥ २४॥
चक्रपाणि:-असह्यतृष्णामयेषु जलस्यामदाने दोषमाह-पूर्वेत्यादि। पूर्वामयातुर इति पूर्वोरपनगदपीडितः। तजोऽन्योपद्रव इति तृष्णाप्रशमनार्थ पीयमानपानीयजः। सुखं जेतुमिति महात्ययकरी तृष्णामपेक्ष्य जेतु सुखोपायो भवतीत्यर्थः ॥ २५ ॥
३९७
For Private and Personal Use Only