________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२श अध्यायः ] चिकित्सितस्थानम् । ३१६३
दाडिममदनफलं वाप्यन्यतमकषायमथ लेहम् । पेयमथवा प्रदद्याद रजनीमधुशर्करायुतम् ॥ २०॥ क्षयकासेन तुल्या क्षयतृष्णा सा गरीयसो नणाम् । क्षीणक्षतशोषहितैस्तस्मात् तां भेषजैः शमयेत् ।। २१ ॥ पानतडातः पानं त्वोदकमम्ललवणगन्धाढ्यम् । शिरस्नातः पानं मद्याम्धु गुड़ाम्घु वा तृषितः ॥ भक्तोपरोधतृषितः स्नेहतृष्णातॊऽथवा तनु यवागूम् । प्रपिबेद गुरुणा तृषितो भक्तेन तदुद्धरेद् भक्तम् ॥ मद्याम्बु वाम्बु चोष्णं बलवान् तृषितः समुल्लिखेत् पीत्वा।
माधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम् ॥ २२ ॥ दध्यादिभिर्वमनमिष्टम् । दाड़िमेत्यादि । दाडिममदनफलं वा वमनम् । अन्यतमकषायं वमनौषधानामन्यतमकषायं रजनीमधुशर्करायुतं वा वमनं प्रदद्यात्। अथवा वमनकल्पोक्तं लेहं रजन्यादियुक्तं वमनं प्रदद्यात् । अथवा वमनोक्तं पेयं रजन्यादियुक्तं वमनं प्रदद्यात् । इति स्तम्भादिछद्देन्तोपसर्गात्मकतृष्णाचिकित्सितमुक्तम् ॥२०॥ __गङ्गाधरः-अथ क्षयकासोपसर्गतृष्णाचिकित्सामाह-क्षयेत्यादि। क्षयकासेन या तृष्णा सा क्षयतृष्णा क्षयकासेन तुल्या, सा नृणां गरीयसी। तस्मात् क्षीणानां क्षतानां शोषाणाश्च हितैषजस्तां शमयेत् ॥२१॥ - गङ्गाधरः-मद्यपानोपसर्गतृष्णाचिकित्सामाह-पानेत्यादि। पानं मद्यपानं तस्माजाततृष्णातः अम्ललवणगन्धाढ्यमर्दोदकं पानं मद्य पिबेदित्य ध्याहार्यम्। पानजतृषितः शिशिराम्बुना स्नातः मद्याम्बु मद्यमिश्रमम्बु गुड़ाम्बुमिश्र वा पानं पिवेत्। अन्नोपसर्गतृष्णाचिकित्सामाह-भक्तेत्यादि। क्षुधायामभोजनजतपितः स्नेहपानतृषितो वा तनुमघनां यवागू मण्डं मपिवेत्। गुरुणा भक्तेन तृषितः तद्भुक्तं भक्तमुल्लिखेद वमेत् । तदुद्धरणाथम् चक्रपाणिः-अन्यतमकषायमिति आमलकादिकषायम् ॥ २० ॥२१॥ चक्रपाणिः-पानसुपात इति अतिशयपानजतृट्पीडितः। भक्तोपरोधो भक्तच्छेदः । मागधिका
पिप्पली॥२२॥
For Private and Personal Use Only