________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६२
चरक-संहिता। तृष्णाचिकित्सितम् वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्नः। सिद्धेऽम्भस्यग्निनिभां कृष्णां मृदं कृष्णसिकतां वा ॥ तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम् । 8 अल्पा पक्वशर्करामृतवल्लीजलं वा तृषं हन्ति ॥ क्षीरवतां मधुराणां शीतानां शर्करामधुमिश्राः। शीतकषाया मृदुभृष्टसंयुक्ताः क्षयतृष्णानाः॥ व्योषवचाभल्लातकतिक्तकषायास्तथामतृष्णामाः। यच्चोक्तं कफजायां छा तथैव काय स्यात् ॥ १६ ॥ स्तम्भारुच्यविपाकालस्यछर्दिषु कफानुगां तृष्णाम् ।
ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम् ॥ शीतः पेय इत्युपदेशः। वटेत्यादि । वटादीनां पल्लवं कुशकाशयोमूलं यष्टाहश्च जले पक्त्वार्द्ध शिष्टमवतार्य पूत सिद्धेऽम्भसि तप्तामग्निनिभां कृष्णवर्णमृत्तिकाम् अथवा कृष्णवर्णसिकतामग्निनिभामधया नवघटादीनां कपालानि तप्तानि प्रक्षिप्य निर्वाप्य शीतीकृत्याच्छं निर्मलं जलं पाययेत। अथवा अल्पा क्षद्रा शर्करा कङ्कराख्या पक्काऽग्निना तप्ता नि पिता अमृतबल्ली गुड़ची तस्या जलं तया शृतं जलं तुषं हन्ति। क्षीरवतामित्यादि। क्षीरवतां वटादीनां शीत. कषाया मृभृष्टसंयुक्ताः भृष्टमृत्संयुक्ताः निळपिताः शर्करामधुमिश्राः क्षय. तृष्णानाः। एवं मधुराणां काकोल्यादीनां शीतकषाया भृष्टमत्संयुक्ता निळपिताः शर्करामधुमिश्राः। तथा शीतानामामलकादीनां शीतकषाया भृष्टमनिर्वापिताः शर्करामधुमिश्राः। व्योषेत्यादि। व्योषादीनां कषाया आमतृष्णानाः । यच्च भेषजं कफच्छ प्रामुक्तं तदपि तथैव तेन प्रकारेणैवाम तष्णायां कार्य स्यात् ॥१९॥
गङ्गाधरः-स्तम्भेत्यादि। देहस्तम्भादुरपसर्गेषु कफानुगां तृष्णां शाखा तस्य पानयोग्या मात्रा मधुप्रक्षेपात् मृन्मये पाले पीयत इति वृद्धैरुपादर्शितम्। अल्पपक्कशर्करमिति पाकनिमित्तमधुरसहितम् । अमृतवल्ली गुड़ची। मृद्धृष्टसंयुता इति भृष्टमृदयुता इत्यर्थः ॥ १९॥ * अल्पपक्वशर्करमिति चक्रः।
For Private and Personal Use Only