________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः] चिकित्सितस्थानम्। ३१६१
मौक्तिकक्षौमानिवसनानां वराङ्गनानां प्रियाणाञ्च । हिमवदरीवनसरित्सरोऽम्बुजवनोपवनपादपशिशिराणाम् । ॐ रम्योदकयुक्तानां स्मरर कथाश्च तृष्णानाः ॥ १७॥ वांततमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाः। क्षयकासनुद् घृतं क्षीरमूद्धं वाततृष्णानम् ॥ १८॥ स्याज्जीवनीयसिद्धं क्षीरं घृतं वातपित्तजे तर्षे । पत्ते द्राक्षाचन्दनखर्ज़रोशीरमधुयुतं तोयम् ॥+ लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः ।
परत्वामलोष्ट्रमधुजलसमायुतो मृन्मये पेयः॥ संस्पर्शाः तृष्णानाः। मौक्तिकादीनाश्च संस्पर्शाः तष्णानाः। आद्रनिवसनं निवासस्थानम्। हिमवतां शीतलानां दरीप्रभृतीनां पादपान्तानां शिशिराणां नीहारवारीणाम् एषां रम्योदकयुक्तानाश्च संस्पर्शाः स्मरणं कथाश्च तृष्णाघ्राः॥१७॥
गङ्गाधरः-सामान्यतस्तृष्णाचिकित्सितमुक्त्वा विशेषत आह-वातघ्नेत्यादि। वाततृष्णायां वातघ्रानपानं मृदु लघु शीतं न तु काठेनगुरूष्णम् । क्षयकासनुद् यद यद घृतमुक्तं तत्तत् पीखोद्ध क्षीरं पीतं वाततष्णाघ्नम् ॥१८॥
गङ्गाधरः-स्यादित्यादि। वातपित्तजे वातजे पित्तजे तदुभयजे च तर्षे। पैत्ते तर्षे द्राक्षादिशतं तोयम् । लोहितेत्यादि। रक्तशालीनां प्रस्थः शरावद्वयम् । किश्चिल्लोध्रमधुकनीलोत्पलसहितः क्षण्णः कुट्टितः मृन्मये पात्रे जलेन पत्त्वा अर्द्धशृतजलभूतः आमलोष्ट्र मधु च जलञ्च तत्र प्रक्षिप्प स्थापितः स्वच्छीभूतः - चक्रपाणिः-इन्दुपादाश्चन्द्ररश्मयः ॥ १७ ॥
चक्रगणिः-वातघ्नत्यादि। तृष्णानां वैशेषिकचिकित्सितमाह-क्षयकासहरैः शृतं क्षय. कासनुद् धृतम्। उद्धं वातः श्वासः ॥ १८ ॥
चक्रपाणिः-वातपित्तजे तर्ष इत्यत्र संसर्गजा तृष्णा असूषितापि असूत्रितद्वन्द्वजगुल्मन्याये. नोच्यते। पैत्रे इत्यस तर्षे इति शेषः । लाहितशालिप्रस्थ इत्यादौ लोध्रादीनां मिलिताना चतुःपलं प्रक्षेप्यन्यायात् पादिकं पक्कामलोष्ट्रप्रसादनञ्च दत्त्वा शालितण्डुलप्रस्थं क्षुषणं स्थाप्यते,
• बनेन्दुपादशिशिराणामिति चक्रः । + इतःपरं-लोहितकशालितण्डुलखर्ज़ रपरुषकोत्पलद्राक्षाः। मधु पक्वलोष्ट्रमेव च जले शृतं पतिलं पेयमित्यधिकः पाठः कचित् ।
For Private and Personal Use Only