________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५८
चरक-संहिता। (तृष्णाचिकित्सितम् लिङ्ग सस्वेितास्वनिलक्षयात् पित्तजं भवत्यथ तु। पृथगागमाचिकित्सितमतः प्रवक्ष्यामि तृष्णानाम् ॥ ११॥ अपसंक्षयाद्धि तृष्णा संशोष्य नरं मारयेदाशु । तस्मादैन्द्र तोयं समधु पिबेद् तद्गुणं वान्यत् ॥ किश्चित्तुवरानुरसं तनु लघु शीतं सुगन्धि सुरसञ्च। अनभिष्यन्दि च यत् तत् क्षितिस्थितमथैन्द्रवज्ज्ञ यम् ॥
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन ॥ १२ ॥ आसां लिङ्गमाह-लिङ्गमित्यादि। एतासु गुर्खन्नजादिषु सर्वासु तृष्णासु यदाऽनिलक्षयो भवति, तदा पित्तजं लिङ्ग भवतीति तृष्णानिदानमुक्तम् । अथ तु निदानोपदेशादनन्तरं पृथगागमात् पृथगवातादिजत्वेन तृष्णानामुपदेशात् तृष्णानां चिकित्सितमतः पृथक् प्रवक्ष्यामि ॥११॥
गङ्गाधरः-अप्संक्षयादित्यादि। तष्णा हि यस्मादब्धातुसंक्षयात् संशोष्य नरमाशु मारयति, तस्मादैन्द्रं दृष्टिसम्भवं जलं समधु पिवेत् तद्गुणमैन्द्रजलगुणवदन्यद वा जलं समधु पिवेत् । दिवा किरण जुष्टं जुष्टमिन्दुकरैर्निशि। वायुनास्फालितं शश्वत् तत्तुल्यं गगनाम्बुनति। तद्गुणमन्यज्जलमाहकिश्चिदित्यादि। किश्चित्कपायानुरसं तनु चाधनं लघु च शीतश्च सुगन्धि च सुरसश्चानभिष्यन्दि च यदभूमिस्थितं जलं तदैन्द्रजलवज्झेयमिति। शृतशीतमित्यादि। अविशिष्टं जलं शृतं ससितोपलं शर्करामिश्रं पिबेत् । अथवा शरादिपञ्चमूलेन शृतं ससितोपलं पिबेत् ॥ १२ ॥ भवतीति दर्शयति । सम्प्रति भिन्नसंमूर्च्छनादीनां यथोतक्रमेण अनिलपित्तजावरोधमभिधाय सर्वातामेवानिलक्षयपित्तजस्वम् उपदर्शयन्नाह-लिङ्गं सर्वास्वित्यादि। पृथगागमादिति पृथगहेतुत्वात् । आगच्छत्यस्मादिति आगमो हेतुः। वातादिहेतुभेदाचिकित्सितभेदं वक्ष्यामीत्यर्थः । किंवा पृथक हि चिकित्सितं वक्ष्यामि । क्षागमादिप्ति आयुर्वेदागमप्रामाण्यात् । आगमे तृष्णानां भेदेन चिकित्साभिधानात् अहमपि पृथक् चिकित्सा वक्ष्यामीत्यर्थः ॥ ११॥
चक्रपाणिः-अपां क्षयादित्यादिना चिकित्सामाह । ऐन्द्रमित्यान्तरिक्षम् । तद्गुणं वादिति यदुक्तं तवाह-किञ्चिदित्यादि। तुवरोऽनुरसत्या रस्यते आस्वायते यस्मिन्निति तुवरानुरसम् । आन्तरिक्षं जलं अव्यक्तसरसयुक्तम्, अव्यक्तीभावस्तु गन्धरसानां प्रकृतो भवति । ऐन्द्रवदित्यनेन अन्तरिक्षानुकारि । शरेक्षुदर्भकुशकाशानां मूलमेव च इत्यत्रोक्तेन शरपञ्चमूलेन ॥१२॥
For Private and Personal Use Only