SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२श अध्यायः ] चिकित्सितस्थानम् । ३१५६ लाजानां सक्तूनां समधुसितं मन्थमैन्द्रण । वाट्यश्चामयवानां शोतं मधुशर्करायुतं दद्यात् । पेयां वा शालीनां दद्याद् वा कोरदूषाणाम् ॥ १३॥ पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम् । पारावतादिकरसंघृतभृष्टैर्वाप्यलवणाम्लैः॥ तृणपञ्चमूलमुञ्जातकैः पियालजैश्च जाङ्गलाः सुकृताः। शस्ता रसाः पयो वा तः सिद्धं शर्करामधुमत् ॥ शतधौतघृतैनाक्तः पयः पिबेच्छोततोयमवगाह्य । मुद्गमसूरचणकजा रसाश्च घृतभर्जिता देयाः ॥ १४॥ मधुरैः सजोवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम् । पानाभ्यञ्जनयोगेष्विष्ट मधुशर्करायुतम् ॥ गङ्गाधरः-लाजानां सक्तूनां समधुसितं समधुशर्करं मन्थमैन्द्रजलेन कृतं दद्यात् । आमयवानां वाट्य मण्ड शीतं मधुशर्करायुतं दद्यात्। पेयां वेत्यादि। शालीनां पेयां वा कोरदूषाणां वा पेयां दद्यात् ॥१३॥ गङ्गाधरः-अथवा पयसा शृतेन पक्वेन दुग्धेन मधुशर्करायुतं भोजनमन्नं योज्यम्। भोजने व्यञ्जनार्थमाह-पारावतेत्यादि। घृतभृष्टः पारावतादिमांसरसर्वाप्यलवणाम्लैलेवणाम्लवर्जितै जनं दद्यात् । रसांचाह तृणेत्यादि। मुझातक औत्तगपथिकः कन्दः। तृणपञ्चमूलं कुशादिपञ्चमूलं मुञ्जातकश्चेत्येतैः भृततायैः पियालफलरसैश्च सिद्धा जाङ्गलाः पारावतादीनां मांसरसाः शस्ताः। अथवा तैस्तृणपञ्चमूलमुजातैः पियालश्च सिद्धं पयः शर्करामधुमत् शस्तम्। शतधौतेत्यादि। तृष्णावान् नरः शतधौतघृतेनाक्तः सन् शीततोयम् अवगाह्य पयः पिवेत्। मुद्गादिरसाश्च घृतभर्जिता देयास्तृष्णावते ॥१४॥ गङ्गाधरः-मधुरैरित्यादि। सजीवनीयैर्मधुरैर्द्रव्यैः शृतं क्षीरं तथा शीतैः सतिक्तकैव्यैः शृतं क्षीरं मधुशर्करायुतं ष्णावतां पानाभ्यञ्जनयोगेषु चक्रापाणिः-आमयवानां वाय ईषभृष्टयवमण्डः ॥ १३ ॥ चक्रपाणिः-तैरिति तृणपञ्चमूल्यादिभिः। मधुरैरिति मधुररसैः। शीतैरिति शीतवीयैः ॥ १४ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy