________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्याय:
२२ अध्यायः चिकित्सितस्थानम्। ३१५७
गुर्वन्नपयःस्नेहः सम्मूईद्भिर्विदाहकाले च। यस्तृषोद वृतमागें तत्राप्यनिलानलौ हेतू ॥१०॥ तीक्ष्णोष्णरूक्षभावान्मयं पित्तानिलो प्रकोपयति।। शोषयतोऽां धातु तावेव हि मद्यशोलानाम् ॥ तप्ताखिव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्। तेषां सन्तप्तानां हिमजलपानाद् भवति शर्म॥ शिशिरस्नातस्योष्णो(मा) रुद्धः कोष्ठं प्रपद्य तर्षयति ।
तस्माद् भजेत सहसा नोष्णः स्नाने जलं शीतम् ॥ गुन्नेत्यादि। विदाहकाले पाककाले सम्मृच्छे द्भिः परस्परं संयोगविभागाभ्यामेकीभावमापद्यमानेगु बन्नपयास्ने तमार्गे पवनतेजसोर्गतिवत्मावरणे यः पुमांस्तृष्येत् तत्रापि पवनानिलो हेतू भवतः। तस्मादन्नजा तृष्णा नातिरिक्ता ॥१०॥
गङ्गाधरः-या चापरा मद्यजा तृष्णा तामाह-तीक्ष्णेत्यादि। मद्य तीक्ष्णा णः पित्तानिलो प्रकोपयति, मद्यकुपितो तावेव पित्तानिलो मद्यशीलार पां धातु शोषयतः। तप्तास्थिव यथा तप्तासु सिकतासु क्षिप्तं तोयमा शुष्यति। तेषां मद्यसन्तप्तानां नगां हिमजलपानाच्छर्म भवति । तस्माद वातपित्तजतृष्णातिरिक्ता न मयजा तृष्णा। अपरा च या दृश्यते तामाह-शिशिरेत्यादि। शिशिरे स्वातस्य चोष्णो देहोष्मा रुद्धः सन् कोष्ठं जठरं प्रपद्य तर्षयति। तस्मादुष्णः सन्तप्तदेहः पुमान् स्नाने शीतं जलं सहसा न मजेत । अत्रापि देहोष्मा पित्तविशेष एव, तज्जातेयं तृष्णा नातिरिक्ता। इत्युक्तमित्यर्थः। एवमग्निवाताभ्यां कृतेऽपां नये स्वरूपादेव नरस्तृष्यति। एवं पित्तवात. हतान्धातुक्षयजत्वमभिधाय अन्तर्भावनीयतृष्णामाह-गुन्चन्नेत्यादि। संमूच्छनिरिति एकता गच्छभिः। अत वातो वृद्धः संमूर्च्छने अमुष्य तृष्णाकरः विदाहकाले च तृष्णा तब पितं तृष्णाकरम् ॥१०॥ . चक्रपाणिः-भयजामपि अन्तर्भावयन्नाह-तीक्ष्णोष्णेत्यादि। सिकतासु हि तोयमिति प्रशमकथनम् । शर्मेति सुखम् । शीतजामन्तर्भावयन्नाह-शिशिरेत्यादि। शिशिरं शीतम् । सष्मा रुद्र इति शीतस्पर्श बलेन बहिर्निर्गच्छन् रोमकूपैः उष्मावरुद्धः प्रतीपीकृतः। एतेन एतस्यापि पित्तजस्वमुक्तम् । म सहसेत्यनेन विश्रमार्थ, शीतजलसेवायां न तथाविधा सृष्णा
३९६
For Private and Personal Use Only