________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५६
चरक-संहिता। [तृष्णाचिकित्सितम् भवति खलु योपसर्गात् तृष्णा सा शोषिणो कष्टा। ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहानाम्॥ सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् । घोरोपद्रवयुक्ता तृष्णा मरणाय विज्ञ या ॥ नानविना छ हि तर्षः पवनाद् वा तौ हि शोषणे हेतू।
अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि ॥ गङ्गाधरः-पारिशेष्यादुपसर्गात्मिकां तृष्णामाह-भवतीत्यादि। या कृष्णा भवत्युपसर्गा ज्वरादुपसृष्टदेहानां नराणां सा तष्मा शोषिणी मुखादिशोपकारिणी कष्टा कष्टसाध्या कष्टदा च। ज्वरमोहक्षयकासश्वासादीत्यत्रादिशब्देन क्षतमद्यपानात्ययादिजा संगृहीता न खतिरिक्ता। कष्टवप्रसङ्गादन्यासामपि कष्टखमाह-सव्वा स्वित्यादि। अतिप्रसक्ताः सा एव तष्णाः कष्टा भवन्ति। रोगान्तरकृशानाञ्च सर्वाः तृष्णाः कष्टा वमिपसक्तानाच साः तृष्णाः कष्टा भवन्ति । परे सर्वासामसाध्यतामाहुः, तन्न ; सा इति वहुवचनान्तस्य घोरेत्यादिप्रथमैकवचनान्तैरन्वयाभावात् । तस्मात् कष्टा इत्यनेन वचनविपरिणामेनान्वयः। सबोस्विति तुशब्देन कष्टा इत्यस्यानुकर्षात् । असाध्यामाह। घोरेत्यादि। घोरा भयानिका या तृष्णा भवत्युपद्रवयुक्ता वातादुक्त लिङ्गा सती तदुत्तरकालजातरोगयुक्ता, सा तृष्णा मरणाय विज्ञ या। इति। नन्वाभ्योऽप्यतिरिक्तास्तष्णाः दृश्यन्ते ताः कथं नोपदिश्यन्त इत्यत आह । नाग्नेरित्यादि। हि यस्मादग्नेस्तेजसो विना पवनाद वा विना तपो न भवति। कस्मात् ? तावित्यादि। हि यस्मादब्धातोरतिटद्धों शोपणे हेतू तावग्निपवनौ भवतः, तस्मान्नरोऽपां क्षये तृष्यते। तथाहि चाह।
चक्रपाणिः-भवतीत्यादिनोपसर्गजामाह । ज्वरायपद्रवरूपा भवति। कष्टेति कष्टसाध्या। एवं प्राकसूत्रितवातपित्तामाग्बुक्षयोपसर्गात्मिका पञ्च तृष्णा व्याहृताः। अन्नैव सुश्रुतोक्ता कफजा सामजायामवरुद्धा, क्षतजा उपसर्गात्मिकायामवरुद्धा। अनजाया आमेनैवान्तर्भावनीया। इदानीं तृष्णाया असाध्याया लक्षणमाह-सर्वास्त्वित्यादि। घोरोपद्वयुक्तेति पीडाकरोपद्रववती। सम्प्रति तृष्णान्तराणां उक्ततृष्णायामेवान्तर्भावं दर्शयन् उक्तवक्तव्यतृष्णानामपि वातपित्तक्षयजन्यत्वमाह-नाग्निमित्यादि। करमात् पुनः अग्निवातौ विना तर्षो न भवतीत्याह । तो हि अतिवृद्धौ पित्तरूपौ अग्निवातौ अन्धानुशोषणे हेतू। तस्मान्नाग्निवातौ विना तर्षः * नाग्निमिति चक्रसम्मतः पाठः।
For Private and Personal Use Only