________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः] चिकित्सितस्थानम् । ३१५५
तृष्णा यामप्रभवा साप्याग्ने यो न पित्तजनितत्वात् । लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च ॥८॥ देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच तृष्येद्धि। दीनखरः प्रताम्यन् संशुष्कहृदयगलतालुः ॥६॥ गङ्गाधरः-आमजतृष्णामाह-तृष्णेत्यादि। उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्। दुष्टमामाशयगतं रसमामं प्रचक्षते। इति। तस्मादामात् प्रभवा तु या तृष्णा साप्याग्नेयी योऽन्नरस आग्नेयान्नज एवापाचित आमः स्यात् तदामजा तुष्णा भवतीत्याग्नेयी न तु पित्तजनितखादाग्नेयी। तस्या लिङ्गम् अरुच्यादित्रयमिति। वातपित्तजाभ्यामतिरिक्तामजा पृथक् पठिता। अन्यत्रामतस्त्रिदोषकोपात् त्रिदोषलिङ्गामसमुद्भवा तु हृच्छू लनिष्ठीवनसाद. कीति पट्यते ॥८॥
गङ्गाधरः-क्षयजतृष्णामाह-दह इत्यादि। मधुरादिषड़ रसानगतषड़रसजो गर्भिण्या रसो नामाद्यधातुस्तद्भवोऽपत्यानां देह एवं रसश्च स्वकृतपड़ रसानाहारजाम्बुभव इत्यतस्तस्य रसस्य क्षयाच्च नरस्तृष्यति। भवति खलु प्रताम्यन् सन् दीनस्वरश्च दीनश्च संशुष्कहृदयगलतालुश्च । भ्रान्तो दीनस्वर• इत्यादिकमुपसर्गजाया लक्षणतया व्याचष्टे, तन्न ; क्षयजलक्षगानुरूपाति. रिक्तमिति। अन्यत्र चोक्तम् । रसक्षयाद या क्षयसम्भवा सा तयाभिभूतश्च निशादिनेषु। पेपीयतेऽम्भः स सुरवं न याति तां सन्निपातादिति केचिदाहुः॥ रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग् व्यवस्येदिति ॥९॥
चक्रपाणिः-तृष्णत्यादिनाऽऽमजामाह। आमशब्देन च समानलक्षणतया कफजाऽपि गृह्यते। साप्याग्नेयन्त्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति। वातश्व तृष्णाकरणेनोक्तोऽपि अस्र प्रधानम्। अन्यत्राप्युक्तम्-'दर्शनं पक्तिरूष्मा च क्षुत् तृष्णा देहमाईवम्। प्रभावप्रसादौ मेधा पित्तकर्माविकारज'मिति। आमपित्तजनितत्वादिति आमा. वरोधवृद्धपित्तजनितत्वादित्यर्थः ॥ ८॥
चक्रपाणिः-देहो रसज इत्यादिना आहाररसात् सर्चधातुत्वमुत्पद्यते । स च रसो देहपोषकोऽम्बुभव इति आप्यः, तस्य क्षयादिति रसक्षयात् अम्बुक्षयो भवति, तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णायां युक्तो भवतीति दर्शयति। उक्तं हि सुश्रुते-'दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः। स्वयोनिवर्द्धनं यत् तदन्नपानं प्रकाङ्क्षतीति। इहापि चोक्तं रससंक्षये तृष्यति ॥९॥
For Private and Personal Use Only