________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२श अध्यायः ]
चिकित्सितस्थानम् ।
मुखशोषस्वरभेद भ्रमसन्तापप्रलाप संस्तम्भान् । ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशञ्च ॥ जिह्वानिर्गममरुचिं बाधिय्यं मदूयनं सादम् । तृणोद्भूता कुरुते पञ्चविधा लिङ्गतः शृणु ताः ॥ ५ ॥ अन्धातं देहस्य कुपितः पवनो यदा विशोषयति । तस्मिन् शुष्के शुष्य यबलस्तृप्यत्यथ विशुष्यन् ॥ निद्रानाशः शिरसो भ्रमस्तथा शुल्कविरसमुखता च ।
स्रोतोsवरोध इति च स्याल्लिङ्गं वाततृष्णायाः ॥ ६॥
गङ्खाधरः - तृष्णायाः प्राबल्ये सामान्यलक्षणमाह - मुखशोषेत्यादि । उद्भूता प्रबला तृष्णा मुखशोपादीन् ताल्वादिकर्कशतां चित्तनाशञ्च जिहानिगमं बहिर्निःसरणं मदूयनं वक्षस उपतापं कुरुते पञ्चविधास्ताः प्रागभिहिताः वातपित्तामक्षयोपसर्गात्मिकास्तृष्णाः शृणु । ननु अन्यत्र सप्त तृष्णा अभिहिताः, तद्यथा । तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात् तथा ह्यामसमुद्भवा च । भक्तोद्भवा सप्तमिकेति तासां निवोध लिङ्गान्यनुपूर्व्वशश्चेति । कथमिह पञ्च तृष्णा इति ? उच्यते । वक्ष्यते ह्यत्रव प्रतितृष्णं कारणं ततो नाधिकास्ति तृष्णा ॥५॥
1
Acharya Shri Kailassagarsuri Gyanmandir
३१५३
गङ्गाधरः- वाततृष्णा लक्षणमाह- अधातुमित्यादि । कुपितः पवनो यदा देहस्यान्धातु' विशोषयति तदा तस्मिन्नबधातौ शुष्के सति अवलः पुमान् शुष्यति चाथ विशुष्यन् तुष्यति । तस्य निद्रानाशादोनि च स्युः । स्रोतोऽन्नजलवहं तस्यावरोधः इति च वाततृष्णाया लिङ्गम् ॥ ६ ॥
For Private and Personal Use Only
तृष्णानां तथा पूर्वरूपञ्च भवतः । ये तु प्राग्रूपं मुखशोषः सर्व्वदाम्बुकामित्वमिति पठन्ति तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात् । उक्तञ्च - 'स्वलक्षणन्तु तृष्णानां सर्व्वदाम्बुपिपासितेति । किंवा मुखशोषे एव सर्व्वदाम्बुकामित्वं लिङ्गानाञ्च लाघवं रोगरूपायातृष्णाया आगमनमित्यर्थः । तृष्णानां व्युपरमो वक्ष्यमा गलिङ्गानामन्यथात्वम् । सर्व्वदोच्छेदो हि तृष्णालक्षणानां न भवत्येव । सहजतृष्णाग्रस्तत्वेन तलक्षणानां अल्पमात्रतयावस्थानात् । लिङ्गानां लाघवमाशुत्पादः । अपायो मरणमिति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते ॥ ४ ॥
चक्रपाणिः सर्व्वतृष्णानामुपद्रवानाह - मुखशोष इत्यादि । ये तु मुखशोपादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानभिधानं स्यात् । उपद्रवाचाध्यायसंग्रहे संगृहीताः तेनातिशयवृद्धाः मुखशोषादय उपद्रवाः । वृद्वास्तु लिङ्गानीति व्यवस्था ॥ ५ ॥
चक्रपाणि:- अन्धातुमित्यादिना पञ्चानां पृथक् सम्प्राप्तिमाह । कुपितः पवनः देहे नानारसादिरूपतया स्थितं अधातु विशोषयति, शुष्केऽब्धातौ शुष्यतीति योज्यम् । स्रोतोवरोध इति प्रत्युपघातः ॥ ६ ॥