SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri ka Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ३१५२ चरक-संहिता। तृष्णाचिकित्सितम् तृष्णा रसवाहिनोश्च धमनोर्जिह्वामूलगलतालुकक्लोम्नः। संशोष्य नृणां देहे कुरुतस्तृष्णामतिबलां तो॥ पीतं पीतं हि जलं शोषयतस्तावतिबलौ न याति शमम् । घोरा व्याधिकृशानां प्रभवत्युपसर्गभूता सा ॥३॥ प्राय पं मुखशोषः स्खलक्षणं सर्वदाम्बुका मत्वम् । तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ॥ ४॥ वमनादि वमनविरेचनादि संशोधनम्। सौम्यं धातु कफरसादिकम्। रसवाहिनीर्धमनीजिह्वामूलादींश्च शोषयतः पित्तानिलो। क्लोम कण्ठोरसोः सन्धिः। एतान् सौम्यधातुरसवाहिधमन्यादीन् संशोष्य तो पित्तानिलौ नृणां देहेऽतिबलां तृष्णां कुरुतः। तावतिबलौ पित्तानिलौ नृभिः पीतं पीतं जलं हि यस्माच्छोषयतः। एवं जाता च सा तृष्णा न शमं याति । व्याधिकृशानां घोरा भयानिकोपसर्गभूता प्रभवति ॥३॥ गङ्गाधरः-तस्याः प्राग्र पमाह–प्राग्र पमित्यादि। मुखशोषः सर्वासां तृष्णानां प्राय पं भवति। सवासां तृष्णानां स्खलक्षणं सर्वदाम्बुकामित्वम् । सर्वासां तृष्णानां लिङ्गानां स्वस्खलिङ्गानां लाघवमपाय इति लाघवपदेन स्वाभाविकतृष्णान्यवच्छेदः॥४॥ षोड़शांशेन दूषयतः। (द्वितीयाबहुवचनान्तम् ।) देह इत्यनेनं एतासां तृष्णानां शरीरद्वयं दर्शयति । या हि मानसी तृष्णा सा शरीरे इच्छाद्वेषात्मिका दुःखात् प्रवर्त्तते इति। या तु देहाश्रयदोषकारणा सा देहजेति भावः। स्वाभाविकतृष्णा यापि वातपित्ते भारम्भे एव, किं साप्यत्र न गृह्यते ? मैवम् , इह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति कृत्वा स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णाकरवातपित्तानां विशेषमाह-पीतं पीतमित्यादि। प्रकृततृष्णारम्भको पित्तवातौ पीतं पीतं जलं शोषयतः। अतो जलशोषणत्वात् शमं न याति । स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः। उपद्रवरूपतृष्णोत्पादमाह-घोरेत्यादि। उपसर्गभूतेति उपद्रवरूपा ॥३॥ चक्रपाणिः-तृष्णाप्राग्रूपमाह-प्राग्र पमित्यादि। प्रान पकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणमाह-स्वलक्षणमिति । अव्यभिचारिलक्षणं यथा ज्वरस्य सन्तापः। पुनः प्रकृतं प्रान पमाह । लिङ्गानां लाघवमिति वक्ष्यमाणवातादिजतृष्णालिङ्गानां अल्पत्वम्। पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिच्च न भवन्त्येव । उक्तञ्च–'अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्" इति। किंवा यदेतत् प्रानपं मुखशोषः सर्वदाम्बुकामित्वम्, एतच्च स्वलक्षणं • तावतो न याति शममिति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy