________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः]
चिकित्सितस्थानम् । ३१४६ कम्पिल्लकविङ्गानि त्वचो दायास्तथव च । पिष्टा तैलं विपक्तव्यं ग्रन्थिनणचिकित्सितम् ॥ द्विवणीयोपदिष्टेन कर्मणा वाप्युपाचरेत् । देशकालविभागज्ञो व्रणान् वीसर्पजान बुधः॥ ४५ ॥ य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये। स एव गलगण्डानां कफजानां निवृत्तये॥ गलगण्डास्तु वातोत्था ये कफानुबला नृणाम् । घृतक्षीरकषायाणामभ्यासान भवन्ति ते ॥ ४६॥ यानीह काण्युक्तानि विसर्पाणां निवृत्तये । एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः॥ विसर्पो नह्यसंसृष्टो रक्तपित्तेन लक्ष्यते। तस्मात् साधारणं सर्वमेतदुक्तं चिकित्सितम् ॥ गङ्गाधरः–कम्पिल्लेत्यादि । कम्पिल्लकविहङ्गदावीलभिः कल्कैश्चतुर्गुणजले तैलं पक्त्वा ग्रन्थित्रणे दद्यात् । अपरश्चाह द्विवणीयेत्यादि । स्पष्टम् ॥४५॥
गङ्गाधरः-चिकित्सिततुल्यबादाह-य एवेत्यादि। ग्रन्थीनां वीसाणाम् एष य एव विधिरुद्दिष्टः, स एव विधिः कफजानां गलगण्डानां निवृत्तये कार्यः। गलगण्डा इत्यादि। ये कफानुबला वातोत्था गलगण्डास्ते घृतादीनामभ्यासात् न भवन्ति ॥४६॥
गङ्गाधरः-यानीत्यादि। इह विसर्पाणां निवृत्तये यानि काण्युक्तानि तानि सर्वाणि काण्येकतः एकस्यां दिशि वर्तन्ते। एक रक्तमोक्षणमेकतो वर्त्तते । कस्मात् ? विसपो न हीत्यादि । हि यस्माद विसपो रक्तपित्तेनासंसृष्टो न लक्ष्यते सर्च एव विसौ रक्तपित्तेन संसृष्ट एव लक्ष्यते, तस्मात् साधारणं
चक्रपाणि:-पाकिभिरिति पावनपिण्डैः। पुनश्चेत्यादिना उक्ता अपि धूमादयः पुनः अपनीतप्रन्थिविषयतया विधीयन्ते, तेन चेह न पुनरुक्तिः ॥ ४४ । ४५॥
चक्रपाणि:--प्रन्थिव्रणचिकित्सिते यदुक्तं तदेवातिदिशन्नाह—य एवेत्यादिना। गलगण्डानामिति बहुवचनानि गलगण्डगण्डमालाऽपचीविवक्षितानि ॥ ४६॥
३९५
For Private and Personal Use Only