________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१५०
चरक-संहिता। [विसर्पचिकित्सितम् विशेषदोषवैशेष्यान्न च नोक्तः समासतः। समासव्यासनिहेंशैरुक्तञ्चैतचिकित्सितम् ।। ४७॥
तत्र श्लोकाः। निरुक्ता नामभेदाश्च दोषा दूष्याश्च हेतवः।
आश्रयो मार्गतश्चैव विसई गुरुलाघवम् ॥ लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः । साध्यत्वं न च साध्यत्वं साधनञ्च यथाक्रमम् ॥ इति पिप्रीषवे छ सिद्धमग्निवेशाय धोमते।
पुनर्वसुरुवाचेदं वीसाणां चिकित्सितम् ॥ ४८ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने विसर्परोगचिकित्सितं नाम
एकविंशोऽध्यायः॥ २१॥ वातपित्तकफरक्तसाधारणमेतचिकिसितमुक्त दोषवैशेष्यान्न च विशेष उक्तः । न च समासतोऽप्युक्तः। समासव्यासनिर्देशैश्चिकित्सितञ्चैतदुक्तमिति ॥४७॥
गाधरः-अध्यायार्थमाह-तत्र श्लोका इति। निरुक्ता इत्यादि । पिप्रीषवे प्रेतुमिच्छवे ॥४८॥ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च। चिकित्सिते विसर्पाणामध्याये त्वेकविंशके । वद्यगङ्गाधरकृते जल्पकल्पतरौ
पुनः। चिकित्सास्थानजल्पे तु षष्ठस्कन्धे विसर्पिणाम् ।
चिकित्सित जल्पो नाम शाखेयमैकविंशिकी ॥२१॥ चक्रपाणिः-विसप रक्तमोक्षणस्तुतिमाह-यानीत्यादि । रक्तमोक्षणे एव कुतः प्राधान्यमित्याहविसर्पो नेत्यादि। साधारणमिति वातकफविसर्प रक्तपित्तहरं चिकितसितं युक्तमित्यशः ॥ ४७ ॥
चक्रपाणिः-निरुक्तमित्यादिसंग्रहः। यल्लक्षण उपद्रव इति यादृकलक्षणेनोपद्वेण न साध्यमित्यर्थः। पिप्रक्षवे प्रष्टुमिच्छवे ॥ ४८ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां विसपचिकित्सितं
नाम एकविंशोऽध्यायः ॥२१॥ * पिप्रक्षवे इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only