________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। [विसर्पचिकित्सितम् धूमविरेकः शिरसः पूर्वोत्तर्गल्मभेदनैः। अयोलवणपाषाण-हेमतप्तप्रपीड़नः॥४३॥ क्रियाभिराभिः सिद्धाभिर्विविधाभिर्बली स्थितः। ग्रन्थिः पाषाणकठिनो यदि नैवोपशाम्यति ॥ अथास्य दाहः क्षारेण शरैहेम्नाथवा हितः । पाकिभिः पाचयित्वा वा पाटयित्वा समुद्धरेत् ॥ मोक्षयेद् बहुशश्चास्य रक्तमुत्क्लेशमागतम् । पुनरस्य हृते रक्त वातश्लेष्मजिदौषधम् ॥ धूमो विरेकः शिरसः स्वेदनं परिमर्दनम् । अप्रशाम्यति दोषे च पाचनं वा प्रशस्यते ॥ प्रक्लिन्नं दाहपाकाभ्यां भिषक् शोधनरोपणैः ।
वाश्चाभ्यन्तरर्वापि वणवत् समुपाचरेत् ॥ ४४ ॥ प्रलेपविधानेन प्रयोगा एते से याः । पूर्वोक्तधूमः शिरसो विरेकैस्तथा गुल्मभेदनरौषधस्तथायःपिण्डतप्तपीड़नेन तथा लवणादीनामेकतमतप्तपपीड़ने. रिमै भैषजैग्रन्थिं दीर्घकालस्थितं भिन्यादिति योजना ॥४३॥ ___ गङ्गाधरः-क्रियाभिरित्यादि । स्पष्टम् । अथास्येत्यादि । उक्तक्रियाभिमेन्थेभेदाभावानन्तरं क्षारेण दाहः शरर्वा हेना वा हितः। पाकिभित्रणशोथोक्तः । पुनर्बहुशोऽस्योत्क्लेशमागतश्च रक्तं मोक्षयेत् । पुनरित्यादि । एवमस्य पुनरपि रक्त हृते वातश्लेष्मजिदौषधं धूमादिकं कायं प्रशस्यते। धूम इत्यादि । शिरसो विरेको धूमः। परिमद्देनमुदत्तनम् । तथा च दोषेऽप्यप्रशाम्यति सति पाचनं व्रणशोथपाचनं वा प्रशस्यते। प्रक्लिनमित्यादि। दाहपाकाभ्यां युक्तं प्रक्लिन्नं ग्रन्थिं वाहैः शोधनरोपणैर्वाभ्यन्तरैर्वा शोधनरोपर्णव्रणवत् समुपाचरेत् ॥ ४४ ॥ मुस्तसक्तवो मुस्तम्वोष इत्यादिना कुष्ठोक्ताः। भल्लातकसक्तवो रसायनोक्ताः। अयोलवणेत्यादि तप्तायःप्रभृतिभिः पीडनैरित्यर्थः ॥ ४३ ॥
• शरैलोहेन इति चक्रस्वीकृतः पाठः ।
For Private and Personal Use Only