SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः] चिकित्सितस्थानम् । ३१४५ यवगोधूमशालीनां सात्म्यमेव प्रदापयेत्।। येषां नात्युचितः शालिनरा ये च कफाधिकाः ॥ ३७॥ विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा। क्रोधव्यायामसूर्याग्नि-प्रवातांश्च छ विवर्जयेत् ॥ ३८॥ कु-चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके। रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके ॥ वातपित्तप्रशमनमग्निवीसपिणे हितम् । कफपित्तप्रशमनं प्रायः कर्दमसंज्ञके ॥ ३९ ॥ रक्तपित्तोल्बणं ज्ञात्वा ग्रन्थिवीसर्पमादितः। विरूक्षणैर्लङ्घनैश्च प्रदेहैः पाञ्चवल्कलैः। सिरामोर्जलौकाभिर्वमनैः सविरेचनैः॥ शृतैः कषायतिक्कैश्च कालज्ञः समुपाचरेत् ॥ जलनार्दीकृताः परिपकाः । यवेत्यादि। यवादीनां मध्ये यद् यस्य सात्म्यमभ्यस्तं तत् तेषां प्रदापयेत् । येषां शालि त्युचितो नात्यभ्यस्तः, ये च नराः कफाधिकास्तेषां सात्म्यं प्रदापयेत् ॥ ३७॥ गङ्गाधरः-वान्याह विदाहीनीत्यादि। विरुद्धं संयोगविरुद्धम् ॥३८॥ गङ्गाधरः-कुय्योदित्यादि। दोषभेदेन चिकित्सामाह-अस्मादन्नपाना. त्मकाचिकित्सिताच्छीतमायाणि खनपानानि पंत्तिके विसर्प कुर्यात् । रूक्षमायाण्यन्नपानानि कफजे कुर्यात्। अनिलात्मके स्नैहिकान्यन्नपानानि कुर्य्यात्। अग्निविसपिणे वातपित्तप्रशमनं स्नैहिकशीतायं चिकित्सितं हितम् । कफपित्तप्रशमनं शीतरूक्षप्रायं कईमविस हितम् ॥३९॥ गङ्गाधरः-रक्तपित्तेत्यादि। ग्रन्थिविसपं रक्तपित्तोल्वणं शाखादितः प्रथमतः विरूक्षणादिभिरुपाचरेत् । पाश्चवल्कलैः प्रदे? रिति योजना। यवगोधूमेत्यादि शालिमहाशालिः, यवगोधूमशालीनां यत् सात्म्यं तदेव प्रयोजयेत्। येषाञ्च शालिनात्युचितः नाभ्यस्तः तेषां यवगोधूमावेव ज्ञेयौ। तयोः कफाविरुद्धत्वात् विसर्पहितत्वाच्च । उक्त हि-'सर्व मधुरं कफकरम् अन्यत्र पुराणयवशालिगोधूमात्' इति ॥३७॥ * प्रतापानिति वा पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy