________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४६
चरक-संहिता। [विसर्पचिकित्सितम् ऊर्द्धश्चाधश्च शुद्धाय रक्त चाप्यवसेचिते। वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम् ॥ ४०॥ उत्कारिकाभिरुष्णाभिरुपनाहः प्रशस्यते। स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम् ॥ दशमलोपसिद्धेन तैलेनोष्णेन सेचयेत् । कुष्ठतैलेन चोष्णेन पक्वक्षारयुतेनछ वा ॥ गोमूत्रः पत्रनिर्यहै रूक्षोष्णैः परिषेचयेत् ॥४१॥ सुखोष्णया प्रदिह्याद वा पिष्टया चाश्वगन्धया। शुष्कमलककल्केन नक्तमालस्य चाथवा।
विभीतकस्य वा ग्रन्थिं कल्केनोप्नेन लेपयेत् ॥ एवमुक्तवमनविरेचनाभ्यामूधिःशुद्धाय रक्त चाप्यवसेचिते सति पित्तरक्तयोः प्रशमने जाते वातश्लेष्मणोः शेषयोहरणं कर्म ग्रन्थिविस हितम् ॥ ४०॥
गङ्गाधरः-उत्कारिकाभिरित्यादि। उत्कारिका यवगोधूमादिचूर्ण जल पकला लेहवद्भावे सति भवति। वेशवारो निरस्थिमांसं स्विन्न कृता पिष्ट्वा गुडघृतकणामरिचचूर्णयुक्तं कुर्य्यादित्येष वेशवार उच्यते। दशमूलत्यादि। एवं दशमूलकल्कचतुर्गुणजलेनोपसिद्धेन तैलेनोष्णेन ग्रन्थिविसर्पशूले सेचयेत्। तथा पक्कक्षारयुतेन भस्मीभूतः क्षारः परिस्राव्यः षड़गुणे जले, ततः पकः सन क्षारो भवति तेन युक्तन कुष्ठतैलेन चोष्णेन शूलशान्त्यर्थं सेचयेत्। गोमूत्रेत्यादि । तथा गोमूत्रैः परिषेचयेत् । एवं रूक्षोष्णः पत्रनियू हैः काथः परिषेचयेत् ॥४१॥
गङ्गाधरः-अथ प्रसङ्गाद ग्रन्थिचिकित्सामाह-सुखोष्णयेत्यादि। अश्वगन्धयेत्यत्र कृष्णगन्धयेति कचित् पाठः । शुष्केत्यादि । शुष्कमूलककल्केनोष्णेनाथवा नक्तमालस्य गोकरञ्जकल्केनोष्णेन। एवं विभीतकस्य कल्केनोष्णेन
चक्रपाणिः-विसर्पवानाह-विदाहीनीत्यादि ॥३८-४० ॥
चक्रपाणिः-उत्कारिकेत्यादिना उष्णोपनाहमाह-उष्णो बहलो लेपः। पाक्यक्षारयुसेनेति पाकेन सुश्रुतापक्तविधानेन कृतः क्षारः पाक्यक्षारः, किंवा पाक्यं पूतिकरम्जं लवणम । गोमूत्ररित्यादौ पत्रम् एरण्डादिकं पतम् ॥४१॥
• पाक्यक्षारयुतेन इति चक्रसम्मतः पाठः।
For Private and Personal Use Only