SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४४ चरक-संहिता। विसर्पचिकित्सितम् अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये। लहितेभ्यो हितो मन्थो रूक्षः सक्षौद्रशर्करः॥ मधुरः किञ्चिदम्लो वा दाडिमामलकान्वितः । सपरूषकमृद्वीकः सखज्जरः शृताम्बुना ॥ तर्पणैर्यवशालीनां सस्नेहा चावलेहिका। जीणे पुराणशालीनां यूषैर्भञ्जीत भोजनम् ॥ मुगान् मसूरांश्चणकान् यूषार्थमुपकल्पयेत् । अनम्लान् दाडिमाम्लान् वा पटोलामलकैः सह ॥ जाङ्गलानाञ्च मांसानां रसांस्तस्योपकल्पयेत् । रूक्षान् परूषकद्राक्षा-दाडिमामलकान्वितान् ॥ रक्ताः श्वेता महाद्वाश्च शालयः षष्टिकैः सह । भोजनार्थे प्रशस्यन्ते पुराणाः सुपरिप्लुताः॥ गङ्गाधरः-अथानादीन्याह । अन्नेत्यादि । मन्थो द्रवेणालोड़िताः सक्तवः। रूक्षो घृतादिस्नेहरहितो रूक्षद्रव्यकृतसक्तवोऽपि। मधुरो मधुरद्रव्यकृतमन्थो . वा दाहिमादिभिरन्वितः किश्चिदम्लो वा मन्थो लवितेभ्यो हितः। सपरूष केत्यादि। परुषकद्राक्षाखज्जू रैः पिष्टरेतः सहितो मन्थः शृताम्बुनाऽर्द्ध शिष्टजलेनालोड़ितः सक्तुर्लवितेभ्यो हितः। तपर्णरित्यादि। यवानां शालीनाश्च तर्पणैर्द्रवद्रव्येणालोड़ितसक्तुभिरवलेहिका सस्नेहा च लजितेभ्यो हितेति लिङ्गविपर्य येण योजना। तस्मिन् मन्थावलेहे जीणे पुराणशालीनां भोजनमन्त्र यूषैर्भुञ्जीत । यूषार्थ माह-मुद्गानित्यादि। मुद्गादीननम्लान् दाडिमाम्लान् वा पटोलफलामलकैः सह वा यूषार्थमुपकल्पयेत्। जाङ्गलानामित्यादि। परूषाधन्वितान् रूक्षान् घृतादिस्नेहवर्जितान् जाङ्गलमांसरसान् तस्य भोजने चोपकल्पयेत् । भोजनार्थ शालीनाह-रक्ता इत्यादि। रक्ताः शालयः श्वेताः शालयो महाहा महाशालयः पुराणाः संवत्सरातीताः। सुपरिप्लुताः चक्रपाणिः-अन्नपानमाह-जीर्णे इति । अवलेहिकारूपेऽन्ने जीर्णे। जाङ्गलानामित्यादौ रूक्षानित्यनेन स्नेहविरहेण रूक्षमांसकृतत्वेन रूक्षत्वं ज्ञेयम् । रक्ताः श्वेता महाह्वा इति रक्तशालयः श्वेतशालयी महाशालयः। श्वेतशालिमागधे पुण्डरीकशालिरिति ख्यातः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy