________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२१श अध्यायः] चिकित्सितस्थानम्।
पटोलपत्रमुगानां रसमामलकस्य च । पाययेत् तु घृतोन्मिश्रं नरं वीसर्प पीड़ितम् ॥ यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिवर्हणम्। निर्दिष्टं तदपि प्राज्ञो दद्याद वीसर्पशान्तये ॥ त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम् । विसर्पाणां प्रशान्त्यर्थं दद्यात् तदपि बुद्धिमान् ॥ ३०॥ त्रिवृच्चूर्ण समालोडय सर्पिषा पयसापि वा। घम्बुिना वा संयोज्य मृद्वीकानां रसेन वा॥ विरेकार्थ प्रयोक्तव्यं सिद्धं वोसर्पनाशनम् । त्रायमाणाशृतं वापि पयो दद्याद विरेचनम् ॥ त्रिफलारससंयुक्तं सपिस्त्रिवृतया सह। प्रयोक्तव्यं विरेकार्थ विसर्पज्वरशान्तये॥ रसमामलकानां वा घृतमिश्रं प्रदापयेत् ।
स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः॥ ३१ ॥ प्रक्षिप्य प्रदापयेत् । मसूरविदलैर्युक्तं पटोलादिकषायं घृतमिश्रं प्रदापयेत् । पटोलपत्रेत्यादि। पटोलपत्रमुगानां रसं काथं घृतोन्मिश्रम् आमलकस्य वा रसं घृतोन्मिश्रं पाययेत् । यच्चेत्यादि स्पष्टम् । त्रायमाणेत्यादि स्पष्टम् ॥३०॥ ___ गङ्गाधरः-त्रिचूर्णमित्यादि। त्रिचूर्ण सर्पिःपयउष्णाम्बुद्राक्षारसान्यतमेन विरेकार्थ प्रयोक्तव्यमिति । त्रायमाणेत्यादि। त्रायमाणाकल्काष्टमांश चतुर्गुणजले भृतं पयो दद्यात्। त्रिफलेत्यादि। त्रितया सह सपिस्त्रिफलारससंयुक्तं प्रयोक्तव्यम्। रसमित्यादि। स एवामलकानां रस एव ॥३१॥
चक्रपाणिः-मसूरविदलैरिति मसूराणां विदलैः। न चात्र विदला श्यामा, तस्याः स्त्रीलिङ्गत्वात् ॥३०
चक्रपाणिः–त्रिफलारसादिभिः समं घृतं देयम्। गुरुकोष्ठाय इति क्रूरकोष्ठाय। दोषपूर्णकोष्ठं गुरुकोष्ठमाहुः ॥३॥
For Private and Personal Use Only