________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१३६ चरक-संहिता। विसर्पचिकित्सितम्
मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि । शारिवामलकोशोर-मुस्तानां वा विचक्षणः॥ कषायान् योजयेद् वैद्यः सिद्धान् वीसर्पनाशनान् । किराततिक्तकं लोध्र दुरालभां सचन्दनाम् ॥ नागरं पद्मकिञ्जल्कमुत्पलं सविभीतकम् । मधुकं नागपुष्पञ्च दद्याद वीसर्पशान्तये ॥ प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम् । नागपुष्पञ्च लोध्रश्च तेनैव विधिना पिबेत् ॥ २८॥ दुरालभां पर्यटकं गुड़ची विश्वभेषजम् । ॐ निशापर्युषितं दद्यात् तृष्णावीसर्पनाशवम् ॥ पटोल पिचुमर्दश्च दार्जी कटुकरोहिणीम् । यष्टा त्रायमाणाञ्च दद्याद वीसर्पशान्तये ॥ २६ ॥ पटोलादिकषायं वा सपिस्त्रिवृतया सह । मसूरविदलैर्युक्तं घृतमिश्नं प्रदापयेत् ॥ गङ्गाधरः-मुस्तेत्यादि। मुस्तादीनां त्रयाणां चन्दनाघोर्द्वयोः शारिवादीनां चतुणों वा कषायांस्त्रीन् कषायान् विचक्षणो योजयेत्। किरातेत्यादि। प्रकरणात् किराततिक्तकादीनां दशानां काथं दद्यात्। प्रपौण्डरीकमित्यादि। तेनैव विधिना काथविधिना ॥२८॥
गङ्गाधरः-दुरालभामित्यादि। विश्वभेषजान्तं निशापर्युषितं शीतकषायविधिना दद्यात्। पटोलमित्यादि। पटोलपत्रादिकं निशापर्युषितं प्रकरणात् ॥२९
गङ्गाधरः-पटोलादीत्यादि। एतत् पटोलादिकषायं सपि स्त्रिटचूर्ण तत्र चक्रपाणिः-किराततिक्तकादिरपि कषायः । तेनैव विधिनेति मुस्तयोगोक्तकषायविधिना ॥२८॥ चक्रपाणि:-निशापर्युषितमिति शीतकषायम् । अयञ्च शीतकषायविधिः पटोलमित्यादावपि
ग्रायः ॥ २९॥
* द्राक्षां पर्पटकं शुष्ठी गुडुची धन्वयासकमिति पाठान्तरम् ।
For Private and Personal Use Only