________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः] चिकित्सितस्थानम् । ३१३५
तस्मादविरेकमेवादौ शस्तं दद्यादविसर्पिणः । शोणितस्यावसेकञ्च तद्धास्याश्रयसंज्ञितम् ॥ इति वीसर्पिणामुक्तं समासेन चिकित्सितम्। एतदेव पुनः सव्वं व्यासतः संप्रवक्ष्यते ॥ २५ ॥ २६ ॥ मदनं मधुकं निम्बं वत्सकस्य फलानि च। वमनं संविधातव्यं विसर्प कफपित्तजे॥ पटोलपिचमाभ्यां पिप्पल्या मदनेन च । विस वमनं शस्तं तथा चेन्द्रयवैः सह ॥ यांश्च योगान् प्रवक्ष्यामि कल्पेषु कफपित्तिनाम् । विसर्पाणान्तु योज्यास्ते दोषनिहरणाः शिवाः ॥ २७ ॥
विसर्पिणे घृतं न देयं तश्च विरेचयेत् । कस्मात १ तेनेत्यादि। हि यस्मात् बहुदोपविसर्पिणो घृतेनावष्टब्ध आवको दोषस्वगादीनि पचेत् । तस्मादादौ वहुदोषाय विरेकमेव दद्यात् । शोणितावसेकञ्च दद्यात् । कस्मात् ? तद्धोत्यादि । हि यस्मात्तच्छोणितमस्य विसर्पस्य आश्रयसंज्ञितम् । इतीत्यादि। इति वीसर्पिणां चिकित्सितं समासेनोक्तम्, पुनरेवैतत् सर्वं व्यासतः सम्प्रवक्ष्यतेऽतःपरमिति शेषः॥२५॥ २६॥
गङ्गाधरः-तत्रोल्लेखनयोगमाह-मदनमित्यादि। विस कफजे पित्तजे कफपित्तजे च मधुकादीनां कपायं कुखा मदनफलवीजानि कल्कीकृत्य मिश्रयिखा वमनं संविधातव्यम्। पटोलेत्यादि। पटोलपिचमाभ्यां कथिताभ्यां मदनेन प्रक्षिप्तेन वमनं पिप्पल्या मदनेन च वमनं शस्तम् । तथेन्द्रयवैः सह मदनेन वमनं शस्तम्। यांश्चेत्यादि। कल्पेषु कल्पस्थाने मदनकल्पादिषु ॥२७॥
तेनेति विरेचनघृतेन। तयस्याश्रयसंज्ञितमिति तत् शोणितमस्य विसर्पस्य आश्रयत्वेन कथितम्, तेन शोणितावसेकात् आश्रयोच्छेदेन विसर्पोच्छेदो भवतीत्यर्थः। ब्यासत इति विस्तरेण ॥ २५ ॥ २६॥
क्रपाणिः-कफपित्तनामिति व्यस्तसमस्तकफपित्तजानाम् ॥२७॥
For Private and Personal Use Only