SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१३४ चरक संहिता | सारित्वादाशुकारित्वादविरुद्धोपक्रमत्वाच्चासाध्यं विद्यात् । साध्यानां साधनविधिमनुव्याख्यास्यामः । लङ्घनोल्लेखने शस्तै तिक्तकानाञ्च सेवनम् । कफस्थानगते सामे रुचशीतैश्च लेपनम् ॥ पित्तस्थानगतेऽप्येतत् सामे कुर्य्याच्चिकित्सितम् । शोणितस्यावसेकञ्च विरेकञ्च विशेषतः ॥ मारुताशयसम्भूतेऽप्यादितः स्याद विरूक्षणम् । रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ॥ वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते । लघुदोषे महादोषे पैत्तिके स्याद विरेचनम् ॥ न घृतं बहुदोषाय देयं तच विरेचयेत् । तेन दोषो ह्यवष्टब्धस्त्वङ्मांसरुधिरं पचेत् ॥ Acharya Shri Kailassagarsuri Gyanmandir [ विसर्पचिकित्सितम For Private and Personal Use Only तत्र पातजन्तु विसपमसाध्यं विद्यात् सर्व्वधावनुसारित्वादिहेतुभ्यः । इति विसर्पनिदानमुक्तम् । अथ किश्च तत्र भेषजमिति प्रश्नस्योत्तरमाह - तत्र साध्यानामित्यादि । लङ्घनेत्यादि । उल्लेखनं वमनम् । सामे कफस्थानगते विसर्प रूक्षशीतैश्च वटादिवल्कलैलेपनम् । पित्तस्थानगतेऽपि सामे विसर्प चिकित्सितमेतत् कुर्य्यात् । विशेषतस्तु शोणितस्यावसेकं मोक्षणं विरेकञ्च कुर्य्यात् । मारुतेत्यादि । पक्काशयसमुद्भूतेऽपि विसर्प आदितः सामे विरूक्षणं स्यात् । तत्रादौ रक्तपित्तान्वयेऽपि स्नेहनं कर्म न हितं भवति । एषु कफ दिजातेषु सामवाद्यथोक्तमिदं हितम्, न तु दोषभेदेन व्यवस्था भवतीति । वातोल्बणइत्यादि । तिक्त घृतं कुष्ठोक्तं लघुदोषे पैत्तिके वातोल्वणे विसर्पे प्रशस्यते । महादोषे पैत्तिकोल्बणे विसप विरेचनं प्रशस्यते । न घृतमित्यादि । वहुदोषाय मानतो बहुदोषाय न तु सङ्ख्यातः । बहुपरिमितसञ्चितदोषाय 1 1 तव साध्यनामित्यादिना चिकित्सामाह । उल्लेखनं चमनम् । कफस्थानगत इति ऊर्द्ध कायगते मास्ताशयशब्देन च पक्वाशयादधः शरीरं गृह्यते । वातोहवणे पैत्तिके च तिक्तघृतं प्रशस्यते लघुदोष इति छेदः । तेन लघुदोषे पैत्तिके इति योज्यम् । बहुदोषायेति पित्तस्य प्रकृतत्वात् वहुपित्तायेत्यर्थः । 1
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy