SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१३८ चरक-संहिता। विसर्पचिकित्सितम् दोषे कोष्ठगते भूय एतत् कुर्याद भिषगजितम्। शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत् ॥ भिषग् वातान्वितं रक्तं विषाणेनाभिनिहरेत् । पित्तान्वितं जलौकाभिरलावृभिः कफान्वितम् ॥ यथासन्नं विकारस्य व्यधयेदाशु वा सिराम् । त्वङ्मांसनायुसंक्लेदो रक्तक्लेदाद्धि जायते ॥ एवं निहतदोषाणां दोषे त्वङ्मांससंश्रिते। आदितो वाल्पदोषाणां क्रिया वाह्या प्रचक्ष्यते ॥ ३२ ॥ उडुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम् । नागपुष्प प्रियङ्गश्च प्रदेहः सघृतो हितः॥ गङ्गाधरः-दोष इत्यादि । एतदामलकानां रसस्त्रिचूर्णयुतो भूयो बहुपरिमाणं भेषजं कोष्ठगते दोषे कुर्य्यात्। शाखादुण्टे हस्तपादै दुष्टे रुधिरे रक्तम् आदौ हरेत् । तत्र वातान्वितं रक्तं विषाणेन शृङ्गेण, पित्तान्वितं रक्तं जलोकोभिः, कफान्वितं रक्तमलाबूभिरादितो हरेत्। यथासन्नमित्यादि। व्याधेविसर्पस्य यथासन्नमासन्नदेशमन तिक्रम्य सिरां वा व्यधयेत्। व्यधने हेतुमाह-खङ मांसेत्यादि । हि यस्मात् यदि रक्तं न निर्हरेत् तदा तद्रक्तक्लेदात् खङ्मांसादिसंक्लदो जायते। एवमित्यादि। एवमनेन प्रकारेण। अल्पदोषाणामादौ वाह्य क्रिया तूच्यते ॥३२॥ चक्रपाणिः-दोपे कोष्टगते भूय इत्यत मूयःशब्दः शाखाश्रयदोष वाच्यः। दुष्टरक्त चिकित्सामाह-शाखादृष्ट इत्यादि। शाखायां दोषे रक्ते च दुष्टे। दोषविशेषेण रक्तावसेकोपायमाह-वातान्वितमित्यादि। रक्तावसेकविशेषविधान चेह पराधिकारत्वानोक्तम् । तच्च सुश्रुते ज्ञेयम् । यथासन्नमिति या विकारप्रत्यासन्ना तां संव्यधयेत्। सिराव्यधश्च सर्वसाधारणः । रक्तानपहरणे दोषमाह-स्वङ मांसेत्यादि। तङ मांसेत्यादी आदित इति विरेचनशोणितमोक्षणाभ्यां । क्रिया बाह्या इति लेपसेकादिका आह ॥ ३२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy