________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१३२
चरक-संहिता। विसर्पचिकित्सितम् भूत उपद्रवस्तस्य प्रायः प्रधानप्रशमे प्रशमो भवति। स तु पोड़ाकरतरो भवति पञ्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरधातुकत्वात् । तस्मादुपद्रवः ॐ त्वरमाणोऽभि धावेत् ॥ २३ ॥ ___ सर्वायतनसमुत्थं सर्वलिङ्ग व्यापिनं सर्वधात्वनुसारिणम् व्याधेगुणभूतोऽप्रधानभूत उपद्रवस्तस्य प्रायः प्रधानप्रशमात् प्रशमो भवति । प्राय इति वचनात् कचित् प्रधानोपशमेऽपि कस्यचिदुपद्रवस्यानुत्तिर्भवति । स तूपद्रवः पोड़ाकरो भवति व्याधितस्य व्याध्युत्पत्तेः पश्चादुत्पद्यमानः क्लेशजनको भवति। कस्मात् ? व्याधिपगिक्लिष्टशरीरखात् । पूवोत्पन्नव्याधिना परिक्लिष्टं हि तस्य शरीरं तदुपरि पुनाध्यन्तरे जाते क्लेशोऽधिकतरो भवति। तस्माद व्याधिपरिक्लिष्टशरीरखात् तं व्याधितमभ्युपद्रवस्तु खरमाणोधावेत । इति कथमनुपक्रम इतिप्रश्नस्योत्तरम् ॥२३॥
गङ्गाधरः-सन्निपातनविसर्प माह-सवेंत्यादि। सर्वेषां वातादिपृथगदोषजानां यान्यायतनानि निदानानि तेभ्यः समुत्थं जातं विसपं सर्वलिङ्गम् उक्तवातादिजविसर्पत्रयलिङ्गं सर्वाङ्गव्यापिनं सर्वधावनुसारिणं एतेन गलगण्डोत्पन्नानां ज्वरादीनां रोगोत्तरकालजानामपि उपद्रवत्वं निषेधयति। रोग एघेत्यनेन मूलव्याधेः पृथक् रोगशब्देन व्यवह्रियमाणमुपद्रवं ग्राहयन्ति । नेन व्याध्यवस्थायाः रोगोत्तरकालजरोगाश्रयस्य च व्यवच्छेदं करोति। व्याधेरवश्यम्भावितया मूलव्याधेः स्वरूपात एव उपद्रवोऽवश्यं भवति। यद्यपि केचित् सहबलदोषा व्याधेरुपद्रवा युक्ताः सहोत्पन्नेन च उपद्वार्थो नास्ति तथापि ये गदा उपद्रवरूपा जायन्ते ते सहोत्पन्नव्याधियोगतया उपद्रवा भन्यन्ते। परमार्थसस्तु सहभाविन उपद्रवा युक्ताः। किन्तु रोगसङ्करत्वेन तव जायन्त इति। एतदुपद्रवलक्षणार्थ सुश्रुतः--'तत्रोपसर्गो नाम यः पूर्वोत्पन्नं व्याधि जघन्यकालजातउपसर्पति, स न्यून एव, तेनोपद्बसंज्ञः' इति। उपद्रवप्रकारमाइ-स्थूल इति। उपद्रवः संज्ञानिरुक्तिः पश्चाजायत इति व्याध्युत्पादसमीपे उपद्वतीति उपद्रव इति निरुक्तेः। व्याधेगुणीभूत इति मूलच्याध्यपेक्षया अप्रधानमित्यर्थः। गुणीभूतत्वे हेतुमाह-तस्य प्रायः प्रधानप्रशमे शम इति । मूलव्याधिप्रशमाधीनशमत्वात् उपद्रवस्याप्राधान्यमित्यर्थः। प्रायःशब्देन च व्यभिचारवाचिना क्वचिदुपद्रवस्य स्वतन्वा चिकित्साप्युक्ता। उपद्रवस्य तु आशुचिकित्स्यत्वं दर्शयति। उपद्रवे नितरां क्लेशो भवति। तस्मादित्यादि त्वरया चिकित्सेत् । सा चिकित्सा च मूलव्याधिप्रशमनेन तथा स्वतन्त्रापि भवतीति उक्तमेव ॥ २३ ॥
चक्रपाणिः-सम्प्रति प्रक्रान्तं सन्निपातविसर्पमाह-सर्वेत्यादि। सर्वायतनसमुत्थमिति • उपद्वमिति पाठान्तरम् ।
For Private and Personal Use Only