________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः]
चिकित्सितस्थानम् । कुरुते तीव्ररुजानां ग्रन्थीनां स्थूलानामणनां दोर्घवृत्तरक्तानाम् । तदुपतापात् ज्वरातिसार-हिका-श्वास-कास-शोष-प्रमोह-वैवारोचकाविपाकप्रसेकच्छदि मूर्छाङ्गभङ्गनिद्रारतिसदनानि प्रादु. भवन्त्युपद्रवा एतैरुपद्रवरुपद् तः स च सर्वकर्मणां विषयमतिपतितो वजनीयो भवतीति ग्रन्थिविसर्पः ॥ २२ ॥
उपद्रवस्तु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा रोगात् पश्चाजायते इत्युपद्रवसंज्ञः। तत्र प्रधानं व्याधियाधर्गणविशेषेण तदुत्सन्नं रक्तं प्रदृष्य श्लेष्माणमनेकधा भिन्दन् स्थूलानामणनां दीर्घवृत्तरक्तानां तीव्ररुजानां ग्रन्थीनां सिराद्याश्रितं ग्रन्थिविसप कुरुते, इमं विसर्प वाह्याभ्यन्तराश्रितं विद्यात्। तस्येमानि रूपाणि चाह-तदुपतापादित्यादि। ज्वरादिसदनान्ता उपद्रवास्तेषां ग्रन्थीनामुपतापात् प्रादुर्भवन्ति । एतैरुपद्वैवरादिभिरुपद्रतो ग्रन्थिविसर्पः सर्वकम्मणां साधनविषयमतिपतितस्ततो विवजनीयो भवति। इति ग्रन्थिविसर्प उक्तः ॥२२॥
गङ्गाधरः-ननु यथा वातादिविसर्पाणां रूपाणि भवन्ति यानि तानीवाग्नेयविसर्पोदीनामुपतापाद यानि भवन्ति किं तानि रूपाण्येवोपद्रवा उच्यन्त इत्यतआह- उपद्रवस्वित्यादि। यो यो मूलभूतस्य रोगस्य जन्मन उत्तरकालज एव तद्रोगाश्रयो रोग एव स्थूलोऽभिव्यक्तोऽणुर्वा व्यक्तवाभावात् सूक्ष्मः पश्चान्मूलभूतरोगात् पश्चाज्जायते इति स उपद्रवसंशः स्यात्। ननु स कथं चिकित्स्य इत्यत आह-तत्रेत्यादि। तत्र प्रधानं व्याधिस्तस्य प्रधानस्य उत्सभारत्तस्वैति वृद्धरक्तस्य । शिरास्नारिवत्यादी प्रन्थिविसर्प कुरुत इति योज्यम् । तेन तीवरुजादियुक्तानां प्रन्थीनां आश्रयं ग्रन्थिविसर्प कुरुत इत्यर्थः। तदुपसापात् सेन ग्रन्थिविसर्पण पीड़नात्। सर्वकर्मणां विषयमतिपतितो भवतीति सर्वचिकित्साविषयतामतिक्रान्तो भवतीत्यर्थः। स च शब्देन यथोक्तोपद्रवयुक्त एवं ग्रन्थिविसर्पः प्रत्यवमृश्यते। अयञ्च ग्रन्थिविसर्पस्तन्मान्तरे अपचीसंज्ञया कथ्यत इत्याहुः। विसर्पाणां रक्तोपद्रवतया उक्तज्वराइयपदवा ज्ञेयाः ॥ २२॥
चक्रपाणिः-उपद्रवस्वरूपं व्याकरोति-उपद्रवस्त्वित्यादि। रोगोत्तरकालजोऽपि रोगमध्यकालजः। एतेन रोगसहोत्थस्य लिङ्गस्य व्यवच्छेदः। यानि च लिङ्गान्यपि कदाचित रोगोत्तरकालजानि भवन्ति तानि रोगेण सह प्रायः उत्पद्यमानानि न रोगोत्तरकालजानीत्युच्यन्ते न तेषामुपद्रवत्वम्। रोगाश्रय इति रोगोत्पादकदोषप्रकोपजन्यतया रोगेण समं तुल्यकारणः ।
For Private and Personal Use Only