SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१३० चरक-संहिता। [विसर्पचिकित्सितम् पूतिमांसश्च क्रमेणाल्यरुक संज्ञास्मृतिहन्ता भवेत् पादपृष्ठश्चावदीर्यते स कईम इव चोपपीड़ितोऽन्तरं प्रयच्छत्युपक्लिन्नमांसत्यागी सिरानायुसन्दर्शी कुणपगन्धिश्च भवति तं कईमविसर्पपरीतमचिकित्स्य विद्यात् ॥ २१॥ . स्थिर-गुरु-कठिन-मधुर-शीत-स्निग्ध-मधुरान्नपानाभिष्यन्दिसेविनामव्यायामसेविनामप्रतिकर्मशीलानाञ्च श्लेष्मा वायुश्च प्रकोपमापद्यते। तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदृष्य दृष्यान् विसाय कल्पेते। तत्र वायुः श्लेष्माणमनेकधा भिन्दन् क्रमेण प्रन्थिमालां कृच्छपाकां + कफाशये संजनयति । उत्सन्नरक्ताल्प वा प्रदृष्य रक्तं सिरानायुमांसत्वगाश्रितानां ग्रन्थीनां मालां पूतिमांसश्च सोऽवकाशो भवति क्रमेणैब। अयं विसर्पोऽल्परुक संज्ञास्मृतिहन्ता च। पादयोः पृष्ठं पादपृष्ठम् । स विसर्पः कई म इव हस्तादिनोपपीड़ित उपलक्ष्यते। अन्तरमभ्यन्तरं प्रयच्छति। उपक्लिन्नमांसत्यागी पङ्कवच्छीर्ण. मांसं स्खलति। तथा मांसपतने सिरादीनि दृश्यन्ते कुणपगन्धिश्च तथापचनेन शववद्गन्धोऽस्य भवति । इति कफपित्तजः कईमविसर्प उक्तः॥२१॥ गङ्गाधरः-अथ ग्रन्थिविसर्पमाह-स्थिरेत्यादि। अप्रतिकर्मशीलानामिति स्थिरगुळ दिसेवनेन सञ्चिते कफे बाते च तदानीं तत्प्रतिकारकरणशीलरहितानाम् । तावुभौ श्लेष्मवायू कथं विसाय कल्पेते इत्यत आह-तत्र वायुस्तयोर्मध्ये बायुः श्लेष्माणमनेकधा भिन्दन् क्रमेण ग्रन्थिमालां ग्रन्थीनां समूहं जनयति कफाशये नाभेरूद्ध मधस्तादवक्षसः। तत्रापरप्रकारमाहउत्सन्नेत्यादि। उत्सनरक्तस्य रक्तं रक्तलसीकाखमांसश्च दूषयन् वायुः गम्भीरपाकः अन्तःपाकः । अन्तरं प्रयच्छति अवकाशं ददाति । कईमसारूप्याच्चास्य कईमसंज्ञा ज्ञेया। कई मविसर्पपरीतम् अचिकित्स्यं विद्यात् यथोक्तसर्बलक्षणं कई ममसाभ्यं विद्यात्। असम्पूर्णलक्षणं प्रति तु चिकित्सां वक्ष्यति ॥२१॥ चक्रपाणिः-स्थिरेत्यादिना अन्थिविसर्पमाह। दुष्टप्रवृद्धाविति परस्परदूषकत्वेन प्रवृद्धौ । कृच्छपाकसाध्यां कृच्छ्रपाका कृच्छ्रसाध्या च। कृच्छ्रपाकता च चिरेण पाको शेयः। . * परामुष्टोऽवदीयते इति वा पाठः। + कृच्छपाकसाध्यामिति चक्रस्वीकृला पारः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy