________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः]
चिकित्सितस्थानम् ।
३१२६ कफपित्तं प्रकुपितं बलवत् स्वेन हेतुना। विसर्पत्येकदेशे त प्रक्लेदयति चाधिकम् ॥ २०॥
तद्विकारः शीतज्वरः शिरोरुग् दाहः स्तमित्यमङ्गावसदनं निद्रा तन्द्रा प्रमोहोऽन्नद्वषः प्रलापोऽग्निनाशो दौर्बल्यमस्थि... भेदो मूर्छा पिपासा स्रोतसां प्रलेपो जाड्यमिन्द्रियाणामामोपवेशनमङ्गविक्षेपोऽरतिरोत्सुक्यञ्चोपजायते प्रायशश्चामाशये विसर्पत्येकदेशग्राही च स्यात्। यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशो रक्तपीतपाण्डरपिडकाभिरवकीर्ण इव मेचकाभो मलिनस्निग्धो वहष्मा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीरपाको निरास्त्रावः शीघ्रक्लेदनश्च भवति। खिन्नक्लिन्न
तथा शय्यां परितः क्रमणात् दुःखाच क्लिष्टभूयिष्ठश्च सन्नाशु निद्रा लभते। ततो निद्रातो दुष्प्रवोधी भवति । इत्यग्निविसर्प उक्तः ॥१९॥
गङ्गाधरः-तुल्यसाध्यवासाध्यवसाधादाग्नेगात् परं कईमाख्यविसर्प कफपित्ताभ्यामाह-कफपित्तमित्यादि। स्वेन हेतुना गुरुमधुरादिना कफः प्रकुपितः कदम्लादिना पित्तं प्रकुपितमिति द्वयं स्वेन हेतुना प्रकुपितं विसर्पहेतुभिर्बलवत् सत् शरीरस्यैकदेशे विसर्पति विसपं करोति। तत्र देशेऽधिकं प्रक्लेदयति च ॥२०॥ . गङ्गाधरः-तस्येमानि रूपाणि-तद्विकार इत्यादि। शीतज्वर इत्यादि लक्षणानि। प्रायशश्चामाशये नाभेरूद्ध मधस्तादवक्षसो विसर्पति न सर्वत्र किन्तु एकदेशग्राही। यस्मिंश्चेति स विसों भूखा यस्मिन्नगावकाशेऽनुसर्पति सोऽवकाशो रक्तवर्णादिपिड़कावकीर्ण इव भवति मेचकाभादिश्च खिन्नक्लिन्न
क्रान्तु गन्तुम्। एवंविधमित्यनेन अग्निविसर्पस्य अनुपहते मर्मणि साध्यत्वे वक्ष्यमाणावस्था उक्ता॥१९॥ . चक्रपाणिः-कफपित्तमित्यादिना कद्दमविसर्पमाह ॥ २० ॥
चक्रपाणिः-प्रायश्चामाशये विसर्पतीति कई मस्य कफजन्यत्वात् कफपित्तयोश्च आमाशयस्थितत्वादिति भावः। एकदेशमाही न सर्वशरीरव्यापकः। मलिनो मलिनाङ्गवदनकः ।
For Private and Personal Use Only