________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२८
चरक संहिता |
वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः । परस्परं लब्धबलं शोघ्रमङ्गे विसर्पति ॥ १८ ॥
तदुपतापादातुरः सर्व्वशरीरमङ्गारैरवकीर्य्यमाणं मन्यते छातीसारमूर्च्छादाहमोहज्वर-तमकास्थिसन्धिभेदतृष्णारोचकाविपाकाङ्गभेदादिभिश्चाभिभूयते । यञ्चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवत्यग्निदग्धप्रकारैश्च स्फोटैरुपचीयते । स शीघ्रगत्वादावेव मम्र्मानुसारी भवति मर्म्मणि चोपतप्ते पवनोऽतिबलं भिनत्त्यङ्गानि प्रतिमात्रं प्रमोहयति संज्ञां हिक्काश्वासौ जनयति प्रणाशयति निद्राम् । स नष्टनिद्रो मृदसंज्ञो व्यथितचेता न क्वचित् सुखमुपलभते परितः स्थानादासनाच्छय्यां क्रान्तुमिच्छति क्लिष्टभूयिष्ठश्चाशु निद्रां लभते दुष्प्रबोधी च भवति । एवं विधमातुरमग्निविसर्पपरीतम्
चिकित्स्यं विद्यात् ॥ १६॥
Acharya Shri Kailassagarsuri Gyanmandir
[ विसर्पचिकित्सितम्
गङ्गाधरः- आग्नेयादीन् क्रमेणाह - वातपित्तमित्यादि । स्वहेतुभिवातहेतुभिर्व्यायामादिभिर्वातः प्रकुपितः । पित्तहेतुभिः कटम्लोष्णादिभिः प्रकुपितं पित्तमिति द्वयं वातपित्तं प्रकुपितं परस्परमन्यतरस्मादन्यतरं लब्धवलं शीघ्रम् अङ्गे विसर्पति विसर्प करोति ।। १८ ।।
गङ्गाधरः -- तस्य रूपाणि - तदुपतापादित्यादि । अङ्गारः प्रदीप्यमानैरिवाङ्गारः । विसर्पो भूला यं यमवकाशमनुविसर्पति सोऽवकाशः शान्ताङ्गारवत् कृष्णप्रकाशोऽतिरक्तो वा भवति । स्फोटैश्वामिदग्धप्रकारैरुपचीयते । स विसर्पः शीघ्रगत्वान्ममाण्यनुसरति मर्म्मणि चोपतप्ते हृदयेऽतिबलं - पवनो गात्राणि भिनत्ति | संज्ञामतिमात्रं प्रमोहयति हिक्काश्वासौ च जनयति । सुखोपलाभाभावादासनात् स्थानात् शय्यां परितश्चतसृषु दिक्षु क्रान्तुं गन्तुमिच्छति ।
For Private and Personal Use Only
चक्रपाणिः - वातपित्तमित्यादिना अग्निविरूपलक्षणमाह । परस्परं लब्धबलमिति अन्योन्यवृद्धं वातपित्तम् ॥ १८ ॥
चक्रपाणिः - शान्ताङ्गारप्रकाश इति निर्वाणाङ्गारसदृशः कृष्ण इत्यर्थः । स्थानात् अवस्थानात्