________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः]
२१श अध्याया] चिकित्सितस्थानम्। ३१७
तस्य रूपाणि शीतज्वरो गौरवं निदारोचकोऽविपाको मधुरास्यत्वमास्योपलेपः प्रसेकश्छदि रालस्यं स्वमित्यमग्निसादो दौर्बल्यम्। यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशः श्वयथुमान् पाण्डु तिरक्तः स्नेहसुप्तिस्तम्भगोरवैरन्वितोऽल्पवेदनः कृच्छ्रपाकैश्चिरकारिभिबहलत्वगुपलेपैः स्फोटः श्वेतपाण्डुभिरनुबध्यते। प्रभिन्नश्च श्वेतपिच्छिलं तन्तुमदुघनमनुबद्धं दुर्गन्धमानावं स्रवत्यूद्धश्च गुरुभिः स्थिरैर्जालावतः स्निग्धर्वहलत्वगुपलेपैरनुबध्यतेऽनुषङ्गी भवति । श्वेतत्त्वङ्नखनयनवदनमूनवर्चस्त्वम्। निदानोक्तान्यस्य नोपशेरते विपरीतानि चोषशेरते। इति श्लेष्मविसर्पः ॥ १७॥
गङ्गाधरः-तस्य रूपाणीत्यादि। प्रसेको मुखस्रावः। यस्मिंश्चावकाश इति कफविसर्पः सन् अनु पश्चाद् यस्मिन्नावकाशे सर्पति सोऽनुसर्पणावकाशः श्वयथुमानित्यादि। कृच्छपाकादिभिः स्फोटैरनुवध्यते उपचीयते। बहला घना खक चर्म तया उपलेप आवरणं येषां तैर्बहलखगपलेपैः स्फोदैः। प्रभिन्नश्च स सस्फोटः श्वेतादिरूपं स्रावं स्रवतीति स एव घिसर्षः अभिभः श्वेतादिकं स्वावं स्रवतीत्युच्यते। अनुबन्धं निशेषेण न स्रवति शेषस्तु वर्तते इति। ऊद्ध श्च स्फोटानामुपरिभागे गुरुस्थिर-जालावततस्बिन्धबाइलखगुप लेपस्फोटरनुबध्यते, एकः स्फोटो नश्यत्यपरो जायत इत्येवमनुबन्धः स्फोटाना भवति। तेन चानुषङ्गी निरन्तरानुबन्धी भवति। श्वेतत्वगादित्वं चास्य नरस्य स्यात्। निदानोक्तानि सामान्याचि लवणाम्लादीनि । विशेषाणि स्वाद्वम्लादीनि च। तेषां विपरीतानि कटूष्णादीनि। इति श्लेष्मविसर्पः उक्तः॥१७॥ चकपाणिा-अनुषको चिरकालस्थायी ॥ १७ ॥
For Private and Personal Use Only