________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। [विसर्पचिकित्सितम् तस्व रूपाणि-ज्वरस्तृष्णामूर्छालदिररोचकोऽङ्गभेदः स्वेदोऽतिमात्रमन्तहः प्रलापः शिरोरुक् चक्षुषोराकुलत्वम् अखमोऽरतिभ्रमः शीतवातवारितर्षोऽतिमात्र हरितहारिद्रमूत्रवर्चस्त्वं हारिद्रदर्शनम् । यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशस्तानहरितहारिद्रनीलकृष्णरक्तानामन्यतमः पुष्यति सोत्सेधैश्चातिमात्र दाहसम्भेदनपरोतैः स्फोटरुपचीयते तुल्यवर्गस्ताविभिरघिरपाकश्च भवति। निदानोक्तान्यस्य नोपशेते विपरीतानि चोपशेरते। इति पित्तविसर्पः॥ १५ ॥
खाद्वल्मलवणस्निग्ध-गुवनस्वप्नसश्चितः।।
कफः सन्दूषयन् दूष्यान् कृत्स्नमङ्ग विसर्पति ॥ १६ ॥ पित्तप्रधानत्रिदोष इति वा। ननु तर्हि कुपितो वायुरिति-पूर्वत्र कथं त्रिदोषलाभः स्यादिति सिद्धं सप्तधातुक इति वचनात् ॥१४॥ ___ गङ्गाथर:-तस्य रूपाणीति--ज्वर इत्यादि। शीतवातवारितर्षः-अतिमात्रं शीतवाते शीतवारिण्यभिलाषः। यस्मिन्नगावकाशे विसो भवन् अनु पश्चात् सर्पति सोऽङ्गावकाशस्ताम्रवर्णादीनामन्यतमो वः सन् पुष्यति पुष्टो भवति। अतिमात्रदाहसंम्मेदनाभ्यां परीतः सम्भेदनं स्फोटानामाशुदभेदनं सोऽवकाश एवम्भूतः स्फोटरुपचीयते। निदानोक्तानि लवणाम्लादीनि सामान्यानि विशेषाणि च विदाह्यम्लादीनि। विपरीतानि चैषां शीतस्निग्धादीनि। इति पित्तविसर्प उक्तः ॥१५॥
गङ्गाधरः-कफविसर्पमाह-वाद्वम्लेत्यादि। स्वमो दिवानिद्रा ॥१६॥
समाने स्वार्थ सम्यस्यापि अभिहितो विधिरन्यवाप्यनुसञ्जनीय इति न्यायात् अन्यविषयेष्वपि ज्ञेयम् । अपञ्च समानो विधिः पित्तप्रधानत्वांद विसर्पाणां पित्तप्रकारे एवोक्तः ॥ १४ ॥ कपाणिः-शीतपातशीतपयसोः तृष्णा शीतवातचारितर्षः। अवकाशे देशे ॥ १५॥
चक्रपाणि:- बालस्वादिना कफजमाह। हेवन्तरेष्वपि श्लेष्मणो विद्यमानेषु स्वाद्वा. दीनामभिधानम् एषामेव प्रायो विसर्पजनकत्वात्। एवं वातपित्तजहेत्वभिधानेऽपि वर्णनीयम्। कृत्स्नमा विसर्पति कृत्स्नमिति अम, श्लेष्मण अर्द्ध काये एवावस्थानात् ॥ १६ ॥
For Private and Personal Use Only