________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः चिकित्सितस्थानम्। ३१२५
तस्य रूपाणि भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पवरतमक-कासास्थिसन्धिभेद-विवर्णवमनारोचकाश्चनुषो - राकुलत्वमस्रागमनम्। पिपोलिकानां संप्रसर इवाङ्गेषु । यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशः श्यावारुणावभासो वा श्वयथुमान् निस्तोदशूलभेदायाससकोचहर्षस्फुरणैरतिमात्रैः पीडाते। अनुपक्रान्तश्चोपचोयते शोघ्रभेदः स्फोटस्तनुभिररुणाभासैः श्यावैर्वा तनुविषमदारुणाल्पत्रावैर्विबद्धवातमूत्रपुरोषश्च भवति। निदानोक्तान्यस्य नापशेरते विपरीतानि चोपशेरते। इति वार्तावसपेः ॥ १३॥
पित्तमुष्णोपचारेण विदाह्यम्लादिभिश्चितम्। . दृष्यान् सन्दूष्य धमनोः पूरयवै विसपैति ॥ १४ ॥ गङ्गाधरः-तस्य रूपाणीत्यादि। दवथुरुपतापः। उद्दष्टनं दण्डादिनेव ताड़नम् । अस्थिसन्धिषु भेद इव पीड़ा। चक्षुषोराकुलत्वं सजलखम् । अत्रागमनं मुखादितो रक्तागमः। यस्मिंश्चावकाशे स्थाने विसपोऽनु पश्चात् सर्पति सोऽवकाशस्तत्स्थानं श्यावारुणाभासः श्वयथुमान् वा भवति निस्तोदादिभिश्चातिमात्रैः सोऽवकाशो वै पीड्यते। अनुपक्रान्तश्चिकित्सयाऽनारब्धः स विसर्यान्वितोऽवकाशः शीघ्रभेदैः शीघ्रोद्भिन्नः स्फोटैस्तनुभिः सूक्ष्मररुणाभैः श्यावैर्वा तनुविषमदारुणाल्पत्रावैरुपचीयते। स आतुरो विबद्धवातादिश्व भवतीति। निदानोक्तानि सामान्यानि लवणाम्लादीनि विशेषाणि च रूक्षोष्णानि नास्य विसर्पिण उपशेरते। विपरीतानि स्निग्धशीतानि चास्योपशेरते। इति वातविसर्प उक्तः ॥१३॥ ___ गङ्गाधरः-पित्तविसर्पमाह-पित्तमित्यादि। उष्णोपचारेण विदाह्यम्लादिभिश्चितं पित्तं दृष्यान् रक्तादींश्चतुरः सन्दृष्य वातकफैः समाहितः धमनीः पूरयत् सद् विसर्पति विसर्प करोति। पित्तमित्युक्त्या नैकं पित्तं दोषः, सप्तधातुकः इति वचनात् । सर्वत्रैव स्वस्वेतरदोषयोगो वोध्यः। पित्तमिति चक्रपाणिः-दवथुश्च पैत्तिकोऽप्यत्र उत्सर्गसिद्भविसर्थपित्तरक्तसम्भवाद् भवति ॥ १३॥ .. चक्रपाणिः-पित्तमित्यादिना पैत्तिकमाह। पूरयदितिपदं यद्यपि पैत्तिके एवोक्तं तथापि
३९२
For Private and Personal Use Only