________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२४
चरक-संहिता। [विसर्पचिकित्सितम् विद्याद विसर्पमन्तर्यदाशु चाग्निवलक्षयात् । अतो विपर्ययाद् वाह्यमन्यं विद्यात् स्वलक्षणैः ॥१०॥ यस्य लिङ्गानि सर्वाणि बलवद् यस्य कारणम् । यस्य चोपद्रवाः कष्टा मर्मगो यश्च हन्ति सः ॥११॥ रूक्षोष्णैः कारणैर्वायुः पूरणैर्वा समाहितः।
प्रदुष्टो दूषयन् दृष्यान् विसर्पति यथाबलम् ॥ १२॥ अयनानां श्वासोच्छासमूत्रपुरीषादीनां प्रवृत्तिमार्गाणां संरोधात् विघटनाच्च तृष्णातियोगात् वेगानां विषमत्वेन प्रवर्त्तनात् अन्तर्विसर्प विद्यात् आशुचानिवलक्षयाच। अतो लक्षणेभ्यो विपर्यायान्मम्मेणोऽनुपघाताद् असंरोधादयनानामविघटनात् तृष्णातियोगाभावाद वेगानां समानां प्रवत्तेनाद वाह्य विसर्प विद्यात् । अन्यं वाह्याभ्यन्तरं विसर्प स्खलक्षणेर्वाह्यलक्षणाभ्यन्तरलक्षणैर्विद्यात् इति नार्थः भावाभावयोरेकत्रासम्भवात् । असाध्यखवचनात् तु वक्ष्यमाणैरसाध्यलक्षणरुभयाश्रितं विद्यादित्यर्थः ॥१०॥
गङ्गाधरः-तत्र तेषामनुपक्रमलक्षणमाह-यस्येत्यादि। यस्य विसर्पस्य वक्ष्यमाणानि सर्वाणि लिङ्गानि भवन्ति यस्य च बलबत् कारणं यस्य च कष्टा उपद्रबा यश्च मम्मंग उरोगतो विसर्पः स तमातुरं हन्ति ॥११॥
गङ्गाधरः-वातजविसर्पस्य निदानपूर्वकसम्प्राप्तिमाह-रूक्षोष्णरित्यादि । रूक्षोष्णैः प्रदुष्टः कुपितो वायुरथवा पूरणः स्वकारणः रूक्षोष्णपूरणद्रव्यः समाहितः सन् दृष्यान् रक्तलसीकाखङमांसानि दूषयन् यथावलं विसर्पति विसपं करोति ॥ १२॥
चक्रपाणिः-अन्तराश्रयादिविसर्पणमाह-मर्मोपघातादिल्गादि। मर्मेति हृदयम् । विद्यात् स्वलक्षणैरिति वक्ष्यमाणविसर्पलक्षणे:॥१०॥
चक्रपाणि:- यस्य लिङ्गानि सर्वाणीति अन्तराश्रयबहिराश्रयविसर्पलक्षणानि ॥११॥
चक्रपाणिः-रूक्षोष्णरित्यादिना पृथक् हेतुलक्षणमाह। पूरणैः रूक्षादिभिः पूरणेन मार्गावरोधात् कुपितः परतन्त्रो वायु यः। उज्यं यद्यपि न साक्षादवातकरं तथापि रूक्षसञ्चयात् उष्णं वातं करोति । उष्णसन्बन्धात् तु सामान्यसम्प्राप्तिसम्प्राप्तं इह यत् कुपितं तजन्यमिति ज्ञयम् ॥ १२॥
For Private and Personal Use Only