________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२२
चरक-संहिता। [विसर्पचिकित्सितम् लवणाम्लकटपणानां रसानामतिसेवनात्। दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च ॥ व्यापन्नबहुमद्योष्ण-रागषाडवसेवनात् । शाकानां हरितानाञ्च सेवनाच्च विदाहिनाम् ॥ कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च। दध्नः सिण्डाकिपूर्वाणामालुकानाञ्च सेवनात् ॥ तिलमाषकुलत्थानां तैलानां पिष्टकस्य च । ग्राम्यानपौदकानाञ्च सेवनाल्लसुनस्य च ॥ प्रक्लिन्नानाञ्च मत्स्यानां विरुद्धानाञ्च सेवनात् । अत्यादानात् दिवास्वप्नादजीर्णाध्यशनाशनात् ॥ क्षतबन्धप्रपतनात् घर्मकर्मातिसेवनात्।
विषवाताग्निदोषाच्च विसर्याणां समुद्भवः ॥७॥ भवतीति सङ्गच्छते, द्वन्द्वजानामाग्नेयादीनामचिकित्स्यखादिवचनात्। रक्तपित्तप्राबल्यं लसीकाशब्देनाम्बुधातुमात्रश्चानार्षवचन मिति ॥६॥
गङ्गाधरः-विसर्पहेतूनाह-लवणेत्यादि। दध्यम्लमस्तुशुक्तानांदध्यम्लमस्तुकृतशुक्तानां कूर्चिकानां दधिकूच्चेिकानां किलाटानां तक्रकूर्चिकानां दध्नः सिण्डाकिपूर्वाणां दधिकृतशिखरिणी पीखालुकानां पिण्डालुकादीनां सेवनात्। प्रक्लिन्नानां मत्स्यानां संयोगविरुद्धानाञ्च मत्स्यानाम्। अत्यादानमतिमात्रया भोजनम् । । अजीर्णाशनादध्यशनाशनाच्च। धर्मकर्मणां रौद्राग्निप्रभृतीनाम्
उक्तं चान्यत्र-'शरीरदूषणादोषा मलिनीकरणान्मलाः। धारणाद्धातवश्च स्युतिपित्तकफास्त्रया' इति ॥६॥
चक्रपाणिः-जायते कैश्च हेतुभिरित्यस्योत्तरं-लवणाम्ले यादि। उष्णानामिति उष्णवीर्याणां हैन्धवाममूलकादीनाम्। हरितानामिति हरितशाकवर्गपठितानामा कादीनाम् । कृर्चिका दधिकूर्चिका तक्रकूर्चिका 'ध किलाटा नष्टक्षीरपिण्डा। मादकस्येति मन्दक्षीरजातस्य । शाण्डाकीपूर्वाणामिति शाण्डाकीसन्धानं शेषः। अजीर्णेऽशनमजीर्णाशनं किंवा भजोर्णस्यापरिणतस्यापचनम। अविदग्धे पूर्व दिनान ऽशनमध्यशनम् ॥ ७॥
For Private and Personal Use Only