________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः] चिकित्सितस्थानम्।
३१२१ स च सप्तविधो दोविज्ञयः सप्तधातुकः । पृथक त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रयः॥ वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः । चत्वार एते वीस वक्ष्यन्ते द्वन्द्वजास्त्रयः॥ आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः। यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥५॥ रक्तं लसीका त्वङमांसं दृष्यं दोषास्त्रयो मलाः। विसाणां समुत्पत्तौ विज्ञयाः सप्त धातवः ॥ ६॥ गङ्गाधरः कैहेतुभिः कतिविधः कतिधातुश्चेत्यनयोरुत्तरमाह-सचेत्यादि। स विसर्पः सप्तविधो दोषैर्भवति। सप्तधातुकश्च विश यः। दोषैः सप्तविधस्तु पृथगित्यादिना। तं सप्तविधमुद्दिष्टं निर्दिशति-वातिक इत्यादि । द्वन्द्वजानां त्रयाणां संशाविशेषज्ञानार्थमाह-वक्ष्यन्ते द्वन्द्वजास्त्रय इति। तद् यथाआग्नेय इत्यादि। आग्नेयादीनि त्रीणि नामानि ॥५॥ ___ गङ्गाधरः-सप्तधातुकवमुद्दिष्टं यत् तनिर्दिशति-रक्तमित्यादि। विझेयाः सप्त धातव इत्यत्र लसीका नामोपधातुविशेषो न खम्बुधातुमूत्रादिनिखिलमिति कुष्ठविसर्पयोर्धातुभेदाद्भद इति ; कुष्ठे हुक्तं- “वातादयस्त्रयो दुष्टास्वग्रक्तं मांसमम्बु च । दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः” इति । केचिदिह लसीकाशब्देनाम्बुधातुमात्रं व्याख्याय कुष्ठोक्तहेतुकुपितदोषाणां हेतुप्रभावाचिरकारिखस्वभावाद्रक्तपित्तयोरप्राबल्याच भेदो विसर्पात् । विसर्प हेतुकुपितदोषाणां हेतुप्रभावाचिरसर्पणस्वभावः प्रबलरक्तपित्तस्त्रिभिर्दोषैरारब्धवाद विसर्पाणामिति वदन्ति । तत्र हेतुप्रभावतश्चिराचिरकारिवादिस्वभावो दोषाणां
चक्रपाणिः-सप्तविधो दोपैरिति दोषभेदात् सप्तविधो भवति । एतेन साध्यासाध्यभेदोऽप्यस्य सम्भवतीति दर्शयति ॥५॥
चक्रपाणि:- पृगगित्यादिना निर्दिष्टं सप्तविधत्वं दर्शयति । रक्तमित्यादिना सप्तधातुत्वं म्फुटयति । रक्तादिदोषत्वं कुष्ठं यद्यप्यस्ति तथापि विसर्पणशीलदोषासाः । कुष्ठानि तु चिरक्रियदोषैर्जायन्त इत्यादि कुष्ठचिकित्सित एव प्रपञ्चतमनुसरणीयम्। दोषास्पयो मला इत्यत्र दोषशब्देनैव वातादिप्राप्तौ मला इति अत्यर्थदृष्टया शरीरमलिनीकरणत्वं प्रतिपादयितुमुक्तम् ।
For Private and Personal Use Only