________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२०
चरक-संहिता। [विसर्पांचकित्सितम् सहसैव नरास्तेन परीताः शीघ्रकारिणा। विनश्यन्त्यनुपक्रान्तास्तत्र मे सशयो महान् ॥ स नाम्ना केन विज्ञ यः संज्ञितः केन हेतुना। कतिधातुः कतिविधो जायते कैश्च हेतुभिः ॥ * सुखसाध्यः कृच्छ्रसाध्यो ज्ञ यो यश्चानुपक्रमः। कथं कैर्लक्षणैः किञ्च भगवंस्तत्र भेषजम् ॥ २ ॥ तदग्निवेशस्य वचः श्रुत्वात्रेयः पुनर्वसुः। यथावदखिलं सव्वं प्रोवाच मुनिसत्तमः ॥३॥ विविधं सर्पति यतो विसर्पस्तेन स स्मृतः।
परिसोऽथवा नाम्ना सर्वतः परिसर्पणात् ॥ ४ ॥ इत्यादि। अनुपक्रान्ताश्चिकित्सयानारब्धाः । संशयमाह-स नाम्नेत्यादि। नाम संशा हेतुः कतिधातुः कैहेतुभिः कतिविधश्च सुखसाध्यः कृच्छसाध्यथानुपक्रमश्च कथं कैर्लक्षणैश्च तत्र किं भेषजमित्येकादश प्रश्नाः॥२॥
गङ्गाधरः-तत्रोत्तरमाह-तदग्नीत्यादि । मुनिसत्तम आत्रेयः पुनर्वसुः ॥३॥
गङ्गाधरः-तत्र प्रथमं नाम वक्तुं हेतुपूर्वकं नामाह-विविधमित्यादि। विविधं सर्पति यतस्तस्मादविसपो नाम स रोगः, अथवा सर्वतः परिसपेणात् परिसपो नाम स रोगः स्मृतः, विशब्दो विविधार्थः, परिशब्दः सर्वतोऽर्थः। इति येन हेतुना यन्नाम्ना संशितस्तदुक्तम् ॥४॥ अनुपक्रान्ता गदाः केचिद विनश्यन्ति, यथा व्यङ्गतिलकादयः। केचित् तु उपक्रान्ता अपि चिरेण नन्ति यथा मेहगुल्मादयः। अनेन तु गृहीताः शीघ्रमेव विनश्यन्तीति त्वराविशेष चिकित्सिते दर्शयन्ति। संशितः केन हेतुनेति कस्माद्धेतोः वक्ष्यमाणविसर्पाः विसर्पसंज्ञया आख्याता इत्यर्थः। कियद्धातुरिति कतिधातुकारणकः। कथं कैर्लक्षगैरिति कथम्भूतः कैलक्षणैज्ञेय इत्यर्थः ॥२॥३॥
चक्रपाणिः-विविधमित्यादिना यथाक्रमं प्रश्नानामुत्तरमाह। विविधं सर्पतीति अध ऊ तिर्थक तथा स्फोटशोफादिभिः प्रसरति विसर्पः। परिसा शब्दार्थ व्याकरोति । परितः सर्वतः। परिशब्दः सर्वतोऽर्थे इत्यर्थः। किंवा परिसर्पणणशब्देन सर्पणमात्रमुच्यते । सर्वतःशब्देन परिशब्दार्थो व्याक्रियते, तेनोक्तं सर्वतः परिसर्पणादिति ॥ ४॥
* कतिभेदः कियद्धातुः किंनिदानः किमाश्रयः इति ऋतः पाठः।
-
-
For Private and Personal Use Only