________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकविंशोऽध्यायः। अथातो विसर्पचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ कैलासे किन्नराकीणे बहुप्रस्रवणौषधौ। पादपैर्विविधैः स्निग्धे नित्यं कुसुमसम्पदा ॥ वहद्भिर्मधुरान् गन्धान् सर्वतः स्वस्यलङ्कते। विहरन्तं जितात्मानमात्रेयमृषिवन्दितम् ॥ महर्षिभिः परिवृतं सर्वभूतहिते रतम् । अग्निवेशो गुरु काले विनयादिदमुक्तवान् । भगवन् दारुणं रोगमाशीविषविषोपमम् । संसर्पन्तं शरीरेषु देहिनामुपलक्षये ॥ गङ्गाधरः--अथोद्दिष्टानुक्रमाच्छदि चिकित्सितानन्तरं वीसर्पचिकित्सितमाह-अथात इत्यादि। सव्वं पूर्ववव्याख्येयम् ॥१॥ ___ गङ्गाधरः-कैलास इत्यादि। कैलासो नाम पर्चतविशेषः। तस्य विशेषणानि किन्नराकोर्ण इत्यादीनि। बहूनि प्रस्रवणानि वा ओषधयो यत्र तत्र। कुसुमानां सम्पदा युतैः पादपै क्षः। मधुरान् हृदयङ्गमान गन्धान् वहद्भिः। सव्वंतश्चतुर्दिक्षु महर्षिगणकृतस्वस्तिकर्मभिरलङ्क ते तत्र कैलासे विहरन्तमित्यादिकमात्रेयविशेषणम् । इदं वक्ष्यमाणं वाक्यम् । तदाह-भगवन्
चक्रपाणिः-पूर्वाध्याये छबिवेगविघातादष्टविसर्पागामुत्पत्तेः छर्य नन्तरं विसर्पस्य विकसितमुच्यते। छद्देश्च रक्तदूषकत्वं विधिशोणितीये 'छदिवेगमतीधाता'दित्यादिना 'शरस्कालस्वभावाच्च शोणितं संप्रदृष्यतीत्यन्तेनोक्तम् ॥ १॥
चक्रपाणिः-कैलासेत्यादि। प्रश्नोऽत्र गुणदोषोपदर्शनपरः। शोभने हि देशे सुमनसो गुरवः शिष्यैः परिवृताः। कुसुमसंपदा पुष्पफलसम्पच्या। मधुरान् गन्धान् इष्टान् गवान् । विहरन्तं वर्तमानम्। जितात्मानं जितेन्द्रियम्। आशीविषाः सः। उपलक्षये पश्यामि।
For Private and Personal Use Only