________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३११६ चरक-संहिता। [छद्दि चिकित्सतम एषा पृथक्त्वेन च या क्रियोक्तातां सन्निपातेऽपि समीक्ष्य वुद्धया। रोग दोषाग्निबलान्यवेक्ष्य कुर्य्याद्भिषक् शास्त्रविदप्रमत्तः ॥२६॥ मनोऽभिघाते तु मनोऽनुकूला वाचः समाश्वासनहर्षणानि । लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारयुक्ताश्च हिता विहाराः॥ गन्धा विचित्रा मनसोऽनुकूला मृतपुष्पयुक्ताम्रफलादिकानाम् । शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः पाइवरागलेहाः ॥ यूषा रसाः काम्बलिकाः खड़ाश्च मांसानि धाना विविधाश्च भक्ष्याः। फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति ॥ गन्धं रसं स्पर्शमथापि शब्दं रूपञ्च यद यत् प्रियमप्यसात्म्यम्। तदेव दद्यात् प्रशमे हि तस्य तज्जो हि रोगः सुख एव जेतुम् ॥३०
गङ्गाधरः-एषेत्यादि। यषा भया छः पृथक्त्वेन वातादिजायाः क्रिया उक्ता शास्त्रविदप्रपत्तो भिषक् सन्निपातेऽपि छर्दिरोगे बुद्धया समीक्ष्य तां क्रियां रोगादीन्यवेक्ष्य कुर्यादिति ॥२९ ।।
गङ्गाधरः-पञ्चमच्छद्दि चिकित्सामाह-मन इत्यादि। मनोऽभिघाते द्विष्टाथै संयोगजातायां छा लोकप्रसिद्धानां हर्षजनकाख्यायिकादीनामितिहासपुराणादाक्तानां श्रुतयः शृङ्गारयुक्ताः शृङ्गाररसोपयुक्ता विहारा न तु शृङ्गारः। गन्धेत्यादि। मनोऽनुकूला विचित्रा गन्धास्तथाम्रफलादीनां पुष्पयुक्ता मृत् गन्धग्रहणे हिता इति । शाकानीत्यादि। मनसोऽनुकूला इत्यनुवर्तते। मनोऽनुकूलानि शाकानि मनोऽनुकूलानि भोज्यानि अथ एवं सर्वाणि पानकादीनि मनोऽनुकूलानि विद्यात् । गन्धमित्यादि। गन्धादिकं यद् यत् प्रियमस्य नरस्यासात्म्यश्च तदेव तस्य प्रशमे दद्यात्। कस्मात् ? हि यस्मात् तज्जो यस्य यत् प्रियमथ चासात्म्यं तदसात्म्यजो रोगस्तदसात्म्यस्य प्रियस्य गन्धादेदानेन जेतु सुख एव भवति ॥३०॥ (१)
चक्रपाणिः- यषेत्यादिना सानिपातिकी चिकित्सा उच्यते। समीक्ष्येति प्रत्यक्षीकृत्य । दोषर्तु रोगाग्निवल निरीक्ष्येति दोषादीनां बलं वीक्ष्य यबलवत् तत्प्रधानचिकित्सा कर्त्तव्या । रोगइछहिरेव ॥ २९॥
चक्रपाणिः--मनोऽभिघात इति लोकप्रसिद्धाः श्रुतय इति लौकिकार्थानुगताः भाख्यायिका इति। विहाराः क्रीड़ाः। लेहा व्यानरूपा लेहाः। गन्धवर्णरसः उपेतानि प्रशस्तगन्धादि
For Private and Personal Use Only