________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः]
चिकित्सितस्थानम्। रसांश्च शूल्यानि च जागलानां मांसानि जोर्णान् मधुसीध्वरिष्टान् । रागांस्तथा षाड़वपानकानि
द्राक्षाकपित्थैः फलपूरकैश्च ॥ २७ ॥ मुद्दान् मसूरांश्चणकान कलायान् भृष्टान् युतान् नागरमाक्षिकाभ्याम्। लिह्यात् तथैव त्रिफलाविङ्ग-चूर्ण विडङ्गलवयो रसं वा॥ . सजाम्बवं वा वदरस्य चूर्ण मुस्तायुतां कर्कटकस्य शृङ्गोम् । दुरालभां वा मधुसंप्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम् ॥ मनःशिलायाः फलपूरकस्य रसः कपित्थस्य च पिप्पलोनाम् । क्षौद्रण चूर्ण मरिचैश्च युक्तं लिहन जयेच्छर्दिमुदीर्णवेगाम् ॥२८॥
शुष्ककोलादिभिस्तथा कटुभिरद्यात्। रसांश्चेत्यादि। जाङ्गलानां मांस. रसांश्च शूल्यानि तेषां मांसानि शूलविद्धानि भटित्रीकृतानि जीर्णान् मध्वादीन् द्राक्षादिभिः कृतान् रागान षाड़वान् पानकानि चाद्यात् ॥२७॥
गङ्गाधरः-मुद्गानित्यादि। नागरमाक्षिकाभ्यां युतान् भृष्टान् मुद्रादीन् अद्यात्। एषामदनमुपकरणरूपेण ज्ञ यम्। लिह्यादिति। त्रिफलाविडङ्गचूर्ण लिह्यान्मध्वादिना यथायोग्यम् । विडङ्गप्लवयो रसं काथं वा पिवेत्। प्लवः कवर्तमुस्तकम्। जाम्बवचूर्णसहितं शुष्कवदरचूर्ण लिह्यात्। मधुसंप्रयुक्तां मुस्तायुतां कर्कटशृङ्गी लिह्यात्। मधुसंमयुक्तां दुरालभां वा लिह्यात् । मनःशिलाया इत्यादि। फलपूरकस्य रसैः कपित्थस्य च रसर्मनःशिलाया आई करसभावनाभिः शोधितायाश्चूर्ण गुञ्जामात्रं लिहंश्छदि कफजां जयेत्। पिप्पलीनां चूर्ण मरिचयुक्तं क्षौद्रेण लिहन कफजां छदि जयेत् ॥२८॥
इति कृत्वा कफच्छ- विहितौ। उक्त हि-'श्लेष्मलं मधुरं प्रायो जीर्णाच्छालियवाहते' इति । रागाः कपित्थादिद्रव्यकृताः। मनःशिलायाश्चूर्ण क्षौद्रेण युतं फलपूरकरसैल्हिन् तथा कपित्थस्य रसैः पिप्पलीनां चूर्ण मरिचश्च युक्तं क्षौद्रेण युतं लिहन्निति योजयेत् ॥ २३-२८॥
For Private and Personal Use Only