________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः] चिकित्सितस्थानम्।
द्राक्षारसं वा प्रपिवेत् सुशीतं मृदभृष्टलोष्ट्रप्रभवं जलं वा। जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशोतं मधुसंयुतं वा ॥ निशि स्थितं वारि समुद्कृष्णं सोशोरधान्यं चणकोदकं वा। गवेधुकामूलजलं गुड़ च्याः जलं पिबेदिक्षरसं पयो वा ॥ २४ ॥ सेव्यं पिबेत् काञ्चनगैरिक वा सवालकं तण्डुलधावनेन। कल्कं तथा चन्दनसेव्यमांसी
द्राक्षोत्तमावालकगैरिकाणाम् ॥ गङ्गाधरः-द्राक्षत्याद। द्राक्षाया रसं काथ मुशीतं प्रपिबेत् । अथवा भृष्टमृत्तिकालोष्ट जले निर्वाप्य शीतं कृखा प्रपिबेत। जम्ब्वाम्रयोयोर्नतु प्रत्येकम् । निशीत्यादि। मुद्गपिप्पलीभ्यां सह निशि स्थितं वारि पिबेत् । उशीरधान्यकाभ्यां सह चणकं जले क्षिप्खा निशि स्थितं यदुदकं तद वा पिबेत् । गवेधुकानां क्षुद्रगोधूमानां मूलं जले निशि स्थितं यज्जलं तज्जलं वा पिबेदेवं गुडू च्या जलं निशि स्थितं पिबेत् । इक्षुरसं वा पयो वा पिबेत् ॥२४॥ ___ गङ्गाधरः-सेव्यमित्यादि। सेमुशीरं चूर्णीकृत्य तण्डुलधावनेन जलेन पिबेत्। काञ्चनगैरिकं वणेगरिकं वालकचर्णसहितं वा तण्डुलधावनेन पिबेत्। चन्दनादीनां सप्तानां कल्कं तण्डलधावनेन तथा पिबेत् ।
चक्रपाणिः-मृद्धृष्टलोष्ट्रजलं वेति मृन्मयलोष्ट्रनिर्बपणभवं जलमित्यर्थः। समुद्रकृष्णं पिप्पलीमुद्गसहितम्। निशि स्थितमित्यादौ सोशीरधान्यमिति द्वितीयः। चणकञ्चेति तृतीयो योगः, तथा गवेधुका। योगद्वयेऽपि शीतकषायविधिज्ञेयः ॥२४॥
चक्रपाणिः काञ्चनगैरिकमिति गैरिकं काञ्चनवर्णम्। सवालकं तण्डुलधावनेनेति विधानं सेव्यं पिबेदित्यनेन तथा काञ्चनगैरिकन्चेत्यनेन च द्वितीययोगे संबध्यते ।
For Private and Personal Use Only