SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [छहि चिकित्सितम् सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुराक्षान् । खजूरमांसान्यथ नारिकेलं द्राक्षामथो वा वदराणि लिह्यात् ॥ स्रोतोजलाजोत्पलकोलमजचूर्णानि लिह्यान्मधुनाभयां वा। कोलास्थिमज्जाअनमक्षिकाविड़ लाजासितामागधिकाकणा वा ॥ २३॥ गङ्गाधरः-सितोपलेत्यादि। कुल्माषलाजयवानां सक्तून् गृञ्जनचूर्ण मिश्रयिला पिप्पल्या सह युक्तं सितोपलामधुभ्यां लिह्यात्। खजूरमांसानि खजू रस्य कोमलमस्तकानि पिप्पल्या सहितानि पेषयिता सितोपलामधुभ्यां लिह्यात्। अथ नारिकेलं पिप्पलीसहितं पेषयिखा सितोपलामधुभ्यां लिह्यात्। एवं द्राक्षां पिप्पलीयुक्तां पेषयिता सितोपलामधुभ्यां लिह्यात् । अथवा वदराणि शुष्काणि पिप्पलीयुक्तानि पिष्ट्वा सितोपलामधुभ्यां लिह्यादेवं प्रत्येकेन सह योजनार्थं तृतीयान्तपदं सितोपलामाक्षिकपिप्पलीभि. रिति प्रयुक्तम् । कुल्माषश्चणकः पित्तविकारे यौगिकः । “स्याद् यावकस्तुकुल्माष” इति वनमाषस्य पर्यायः नतु कुलत्थपर्याययावकः कुल्माषश्चेति । कुलत्थस्य पित्तवर्द्धकत्वेन पित्तच्छयोमयौक्तिकखात्। कुलत्थः कफवातघ्नो ग्राहुाष्णस्तुवरः कटुरित्युक्तेः। स्रोतोजेत्यादि। स्रोतोजो रसाञ्जनम्, रसाञ्जनादीनां चूणोनि मिलितानि मधुना लिह्यात् । अभयां वा मधुना लिह्यात्। कोलास्थिमज्जेत्यादीनि मिलितान्येकयोगः। मक्षिकाणां विट मागधिकानां कणास्तण्डुलान् मधुना लिह्यादिति पूर्वेणान्वयः ॥ २३ ॥ चक्रपाणिः-कुल्माषलाजायवसत्तगृजानिति पिष्टकृता भक्ष्याः। पारियावास्तु मुगान् मसूरानुस्विन्नसूदितान् कुल्माषानाहुः। गृक्षः समण्डो यवौदनः। खजूरमांसानीति खजूरफलमज्जा। खजू रेत्यादौ लिह्यादित्यक्ष सितोपलामाक्षिकपिप्पलीत्यनुवर्तनीयम् । स्रोतोजं स्रोतोऽजनम् । कोलमज्जा कोलाभ्यन्तरम्। अभयां वेत्यतापि मधुना लियादिति संबध्यते। कोलास्थीत्यादावपि मधुना लियादित्यनुवर्तते ॥ २३ ॥ .. For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy