SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०श अध्यायः चिकित्सितस्थानम् । व्योषण युक्तां लवणैस्त्रिभिश्च तस्यैव मात्रामथवा प्रदद्यात् । स्निग्धानि हृद्यानि च भोजनानि रसैः सयूर्दधिदाडिमैश्च ॥२० पित्तात्मिकायां त्वनुलोमनाथ द्राक्षाविदारीक्षुरसैस्तिवृत् स्यात् । कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूडू मेव ॥ २१ ॥ शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वापि पेयाम् । प्रदापयेन् मुद्गरसेन वापि शाल्योदनं जागग्लजैरसैर्वा ॥ २२॥ . तोयेन दाडिमफलरसेन सिद्धं घृतं ना पिवेत् । अथवा तस्यैव दाडिमरससिद्धस्य घृतस्य मात्रां व्योषयुक्तां त्रिभिलवणैः सौवर्चलसैन्धवविडलवणैश्च युक्तामनुरूपेण मिलितां घातच्छईयां प्रदद्यात्। भोजनान्यन्नानि स्निग्धानि हृद्यानि मण्डपेयादीनि वातहरहृद्यद्रव्यसाधितानि लघुभिमांसरसैयू पर्दधिभिर्दाडिमैश्च प्रदद्यादिति वातजच्छदि चिकित्सितम् ॥२०॥ गङ्गाधरः-अथ पित्तच्छर्दिचिकित्सितमाह-पित्तात्मिकायामित्यादि। द्राक्षारसैविदारीरसैरिक्षुरसैर्वा युक्ता चूर्णिता त्रित् पित्तच्छमिनुलोमनाथ स्यात् । कफाशयस्थमतिमात्रद्धपित्तन्तु स्वादुभिरूद्ध हरवमनद्रय रूई हरेत् वामयेत् ॥२१॥ गङ्गाधरः-शुद्धायेत्यादि। अनेन विधानेन शुद्धाय पित्तच्छर्डियुक्ताय काले बुभुक्षायां जातायां लाजैश्चूर्णीकृत वेणालोहितैर्मन्थं मधुशर्कराभ्यां यथायोग्यं प्रदापयेत् । अथवा लाजैः पेयां मधुशर्कराभ्यां युक्तां प्रदापयेत् । अग्निवलाधिक्ये मुद्गरसेन शाल्योदनं प्रदापयेदथवा जाङ्गलमांसजरसैः शाल्योदनं प्रदापयेत् ॥२२॥ चक्रपाणि:-सैन्धवदिति सैन्धवप्रक्षेपम् । तोयेन च दाडिमस्य इति दाडिमरसेन । व्योषेणेत्यादौ व्योषादीनां घृतमातायां प्रक्षेपार्थम् ॥ २० ॥ चक्रपाणिः-कफाशयस्थमिति कफस्थानस्थम् । आमाशयोद्धभागो वक्षः, तत्स्थं हरेत् । ऊर्द्ध मेवेति वमनेनैव हरेत् ॥ २१॥ चक्रपाणिः-यदि वापि पेयामिति मन्दाग्निं प्रति पेया ज्ञेया॥२२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy