________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०८
चरक-संहिता। [छदि चिकित्सितम् द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च। यच्छईयेत् तप्तमना मनोनद्विष्टार्थसंयोगभवा मता सा ॥ १४ ॥ क्षीणस्य या छर्दिरतिप्रसक्ता
सोपद्रवा शोणितपूययुक्ता। ऊर्द्ध गमयित्रा प्रसक्तमविच्छेदेन तथा तहादियुक्तमतिवेगात् प्रच्छईयेत् प्रच्छदि कारयेत् तया छईप्रऽदितः पुमानाशु विनाशमेति। त्रिदोषहेतुमन्तरेण नैवं छईिरेकादिदोषेण सम्भवति। न हि सर्वासु वातजादिषु छर्दिषु वायुरूई बेगो भवति तदितरदोषसमाचयश्च वर्तते इति ॥१३॥
गङ्गाधरः-आगन्तुच्छद्दिवचनानन्तरं सर्वछद्दप्रसाध्यताया वक्ष्यमाणसाच्च आगन्तुच्छईिमाह-द्विष्टेत्यादि। यद् यत् पुरुषो द्वेष्टि तत्तद्दव्यं द्विष्टं प्रतीपं सात्म्यविपरीतमशुचि द्रव्यं घृणाकरं पूति दुर्गन्धि द्रव्यं अमेध्यं मनःप्रतिकूलं वीभत्सं विकृतम्। तेषां गन्धेनाशनेन दर्शनेन च मनोध्नेन तप्तमना उद्विग्नमना यच्छद्दे येत् सा छर्दिष्टिार्थसंयोगभवा पञ्चमी मता। एतेन तदयुक्तं यदव्याख्यायते–“वीभत्सजा दौर्ह दजामजा च असात्म्यजा च क्रिमिजा च या हि। सा पश्चमी ताश्च विभावयेच दोषोच्छयेणैव यथोक्तमादौ” इति वचनेन सा पश्चमीति वीभत्सजाद्यपेक्षया क्रिमिजा पञ्चमी, तामादौ यथोक्तं दोषोच्छयेण विभावयेदिति । क्रिमिजा हि छद्दि रिहागन्तुजायां नाभिहिता स्वमादिभिः कफच्छदि हेतुभि द्धः कफो यच्छद्दि करोति तत्रादिपदेन क्रिमिरपि कफस्थानज उपसंगृहीतः। इति न न्यूनता। येन तु क्रिमिजा पृथगुक्ता क्रिमिप्रत्यनोकचिकित्साकरणशापनाथमिति ॥१४॥
गङ्गाधरः-अथ सर्वासामसाध्यतामाह-क्षीणस्येत्यादि। व्याध्यादिभिः चक्रपाणिः-द्विष्टेत्यादिना द्विष्टजामाह। द्विष्टादयो गन्धेनाशनेन दर्शनेन च यथायोग्यतया संबध्यते। अशनं भक्षणम् । द्विष्टं प्रतिपुरुषाप्रीतिजनकम् । प्रतीपं पचादि। केचित् प्रतीपं वातमाहुः। भशुधि उच्छिष्टम्, अमेध्यं मलिनम्, वीभत्सं जुगुप्सितम्। मनोज्नैरिस्यनेन द्विष्टादीनां मध्ये यत्किञ्चित् पुरुषं प्राप्य अशुच्यादि मनोन न भवति तं प्रति • तच्छईि कारकं न भवति मनोऽनुपधातकस्वादिति सूचयति ॥ १४॥ .
चक्रपाणिः-भसाव्यलक्षणयुक्त छहि परित्यागाईमाह-क्षीणस्येत्यादि। भविप्रवदा
-
For Private and Personal Use Only