________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः]
चिकित्सितस्थानम् । ३१०७ सवें प्रकोपं युगपत् प्रपन्नाश्वदि त्रिदोषां जनयन्ति दोषाः॥ ११ ॥ शलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्। छर्दि स्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नणां स्यात् ॥ १२॥ विट्स्वेदमूत्राम्बुवहानि वायुः : स्रोतांसि संरुध्य यदोर्द्धमेति। उत्सन्नदोषस्य समाचितं तं दोषं समुद्भूय नरस्य कोष्ठात् ॥ विण्मूत्रयोस्तत्समगन्धवर्ण तृटश्वासहिकार्तियुतं प्रसक्तम् ॥ प्रच्छई येद् दुष्टमिहातियोगात्
तयादितश्चाशु विनाशमेति ॥ १३ ॥ कुर्वतो नरस्यामानप्रदोषेण ऋविपर्ययैश्च सर्वदोषा युगपत् प्रकोपं प्रपन्नाः त्रिदोषां छाई जनयन्ति ॥ ११ ॥
गङ्गाधरः-लिङ्गान्याह-शूलेत्यादि। शुलादीनि प्रबलानि यत्र सा प्रसक्तं निरन्तरं लवणादिरूपं वस्तु वमतां नृणां छर्दि त्रिदोषात् स्यात् ॥ १२ ॥
गङ्गाधरः-एतामसाध्यामाह-विट्स्वेदेत्यादि। उत्सन्नदोषस्य उद्गतत्रिदोषस्य नरस्य यस्मात् यदा वायुर्वियादिवहानि स्रोतांसि संरुध्य तेषां विड़ादीनामधःप्रवृत्तिपथं रुद्धा ऊर्द्ध मेति तत्तस्मात् तदा तस्योत्सन्नत्रिदोषस्य तस्य नरस्य समाचितं तं दोषं सपित्तं कर्फ विण्मूत्रयोः समगन्धवर्ण दुष्टं कोष्ठादुद्धय भुझानस्येत्यर्थः। सर्वरसभोजनं हि पथ्यमेव । तेनेह तस्य विदोषकर्स त्वं न स्यात् । प्रसक्तमिति निरन्तरम्। आमस्य वा प्रदोषः आमप्रदोषः ॥ ११ ॥ १२ ॥
चक्रपाणिः-विट्स्वेदेत्यादिना उपद्रवयुक्तां छहिम् मपद्वादसाध्यामाह। विमत्रयोस्तत्समगन्धवर्ण छईयतीति वायुना विमूत्रस्रोतसां दूषितत्वाजज्ञेयम् ॥ १३ ॥
For Private and Personal Use Only