________________
Shri Mahavir Jain Aradhana Kendra
३१०६
www.kobatirth.org
चरक संहिता ।
स्निग्धातिगुर्व्वामविदाहिभाज्यः स्वप्नादिभिश्चव कफोऽतिवृद्धः । उरः शिरो मर्म्म रसायनीश्च सर्व्वाः समावृत्य वमिं करोति ॥ ६ ॥
तन्द्रास्यमाधुर्य्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्त्तः । स्निग्धं घनं स्वादु कफं विशुद्धं सलोमहर्षोऽल्परुजं वमेत् तु ॥ १० ॥
समश्नतः सर्व्वरसान् प्रसक्तमामप्रदोष विपर्य्ययैश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
चक्रपाणिः - मूद्धति तापेन संबध्यते । धूम्र ं धूम्रवर्णम् ॥ ८ ॥
चक्रपाणिः - स्निग्धेत्यादिना कफजमाह ॥ ९ ॥
गङ्गाधरः- स्निग्धेत्यादि कफजच्छदैर्निदानानि स्वमादिभिरित्यन्तानि । मम हृदयं रसायनी रसवाहिनीधमनी सप्तशती ॥ ९ ॥
गङ्गाधरः - निदानपूर्वक सम्माप्तिमुक्त्वा कफजच्छद्दर्लिङ्गान्याह - तन्द्रत्यादि । सन्तोषस्तृप्तिवदभ्यवहारानिच्छुता । स्निग्धमित्यादि यद्वमति तद्वस्तुविशेषणम् । अल्परुजमिति क्रियाविशेषणम् ॥ १० ॥
गङ्गाधरः - त्रिदोषजच्छदे निदानपूर्वक सम्माप्तिमाह – समश्नत इत्यादि । समश्नतः समशनं कुर्व्वतः । समशनमुक्तं ग्रहणीचिकित्सिते - पथ्यापथ्यमित्र भुक्तं समशनं मतमिति । सर्व्वरसानां प्रसक्तं निरन्तरं समशनं
छ चिकित्सित
For Private and Personal Use Only
चक्रपाणिः -- सन्तोषोऽव तृप्तिः । अन्ये तु सन्तोषो मानस एव अव व्याधिप्रभावाद भवति । अल्परुज मिति क्रियाविशेषणम् ॥ १० ॥
चक्रपाणिः - समश्नव इत्यादिना त्रिदोषजमाह । समश्नतः सर्व्वरसानिति पथ्यापथ्यमेलकरूपतया भजतः । उक्तं हि 'पथ्यापथ्यमिहकत भुक्तं समशनं मतमिति, न तु सर्व्वरसान्