________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श मध्यायः चिकित्सितस्थानम्।
३१०५ हृत्पार्श्वपीडामुखशोषमूर्द्धनाभ्यर्तिकासवरभेदतोदैः। उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् । कृच्छ्रेण चाल्पं महता च वेगेनात्तोऽनिलाच्छईयतीह दुःखम् ॥ ६॥ अजीर्णकटुम्लविदाह्यशोतेरामाशये पित्तमुदोर्णवेगम्। रसायनीभिर्विसृतं प्रपीड्य मम्मोई मागम्य वमिं करोति॥७॥ मूछोपिपासामुखशोषमूर्द्धताल्वक्षिसन्तापतमोभ्रमात्तः। पीतं भृशोष्णं हरितं तिक्तं
धूम्रश्च पित्तेन वमेत् सदाहम् ॥८॥ वायुर्दोषानुक्लिश्य ऊर्द्धमस्यन् निक्षिपन् मर्म हृदयादि प्रपीड़यन्नामाशयोत्क्लेशकृतां छर्दिम् उदीरयेत् ॥५॥
गदाधरः-वातजच्छदि लक्षणमाह-हृत्पावेत्यादि। हृत्पावयोः पीड़ा, मूर्द्धनाभ्योरत्तिः। वमनकाले प्रवल उदारशब्दो यत्र तथाविधं छह यतीति क्रियाविशेषेणम्। यद्वस्तु छद्दे यति तद् विच्छिन्नकृष्णवर्ण तनुकमधनमल्पश्च महता वेगेनात्तः सन् कृच्छण छईयति बातात् ॥६॥ ___ गङ्गाधरः-पित्तजच्छनिदानपूर्वकसम्माप्तिमाह-अजीणेत्यादि। अशीतमुष्णम्। रसायनीभिः रसवाहिनीभिधमनीभिर्विसृतं विसारि सत् मर्म प्रपीड्य वक्षः प्रपीड्य ऊर्द्धमागम्य वर्मि करोति जनयति । मुछेत्यादि पित्तजवमिलक्षणम् । पीतमित्यादि विशेषणं तस्य यद्वस्तु वमति ॥७॥८॥ चक्रपाणि:-कषायमिति कषायरसं कषायवर्ण वा ॥ ६ ॥
चक्रपाणि:-अजीर्णेत्यादिना पित्तजायाः हेतुलक्षणे व्रते। भजीर्णेति भनीणे भोजनम् । रसायनीभिरिति स्रोतोभिः ॥७॥.
For Private and Personal Use Only