________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः
चिकित्सितस्थानम् । सचन्द्रिका तां प्रवदेदसाध्यां साध्यां चिकित्सेदनुपद्रवाश्च ॥ १५ ॥ आमाशयोत्क्लेशभवा हि साश्छो मता लङ्घनमेव तस्मात् । प्राक कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि ॥ १६ ॥ चूर्णानि लिह्यान्मधुनाभयानां हृद्यानि वा यानि विरेचनानि। मद्यः पयोभिश्च युतानि युक्त्या
नयन्त्यधो दोषमुदोर्णमूर्द्धम् ॥ १७॥ क्षीणस्यातिप्रसक्ता निरन्तरप्रबलत्वेन लग्ना या कासाप्रपद्रवयुक्ता च या यां च शोणितपूययुक्ता तां सचन्द्रिका मेदःप्रभृतिधातुर्मयूरपुच्छचन्द्रकवत् प्रतिभाति सा चन्द्रिका तदयुक्तामसाध्यां प्रवदेत् । अनुपद्रवां कासादुरपद्रवहीनां साध्यां वातादिजान्यतमां चिकित्सेत् । इति च्छदि निदानम् ॥१५॥
गङ्गाधरः-अथ साध्यायाश्छद्देश्चिकित्सितमाह-आमाशयेत्यादि। आमाशयः कफस्थानं तदुत्क्लेशभववादादौ सासु छद्दिषु लङ्घनम्। अथवा वातजां छईि विना सर्वासु कफपित्तहारि संशोधनं वमनविरेचनं कारयेत् मारुतजायां लङ्घनमेव ॥९६॥
गङ्गाधरः-चूर्णानीत्यादि। कफपित्तहारीणि विरेचनानि अभयानां इति सदानुवद्धा। सोपवेत्यख विट्स्वेदेत्यादिना शेगोपद्रवा ज्ञेयाः। सचन्द्रिकामिति दत्तस्नेहमण्डलाकारयुक्ताम् ॥ १५॥
चक्रपाणिः-आमाशयेत्यादिना साध्यानां चिकित्सामाह। यस्मादामाशयोत्क्लेशात् सर्वाश्छईयो भवन्ति, आमाशयोत्थे च रोगे लङ्घनादि कफहरं भेषजं युक्तम्, तस्मात् लङ्कनमेव कर्तव्यमिति भावः। लङ्घनं चाल्पदोषविषयं शोधनञ्च बहुदोषविषयमिति व्यवस्था। संशोधनशब्देन चेह विरेचनवमने अपि गृह्यते। अन्ये तु अत्र संशोधनशब्देन प्रतिमार्गहरणतया अत्यर्थहितं विरेचनमेव वणयन्ति ॥ १६॥
चक्रपाणिः-संशोधनयोगानाह-चूर्णानीत्यादि ॥ १७ ॥
For Private and Personal Use Only